________________
कल्प ॥ ५ ॥
____ व्याख्या-वासवासमित्यादि, वर्षावासं पर्युषिताना-निर्ग्रन्थानां निर्ग्रन्थीनां च सर्वतः- दीपिका चतमृषु दिक्षु समन्ताद् विदिक्षु च सक्रोशं योजनमवग्रहमवगृह्य यथालन्दमपि स्तोककालमप्यवग्रहे स्थातुं कल्पते, न बहिर्लन्दकालमपि स्थातुं कल्पते, तत्र उदकाः करो यावता शुष्यति तावान कालो जघन्य लन्द,उत्कृष्टं पश्चाहोरात्रास्तयोरन्तरं मध्यं, यथा-रेफप्रकृतिरप्यरेफप्रकृतिरपीति, एवं लन्दमप्यवग्रहे स्थातुं कल्पते अलन्दमपि षड्दिनादारभ्य यावत् षण्मासानेकनाऽवग्रहे स्थातुं कल्पते, उपाश्रयात् सार्द्धको शवयं चतमृषु दिक्षु अधिोमध्यग्रामात् विना गजेन्द्रपदादिगिरिमेखलाग्रामस्थितानां तु षट्सु दिक्षु गमागमेन पञ्चक्रोशावग्रहः । यच्च अनन्तरं विदिक्षु इत्युक्तं तद् व्यावहारिकविदिगपेक्षया, भवन्ति हि ग्रामा मूलग्रामादाग्नेय्यादिविदिक्षु नैश्चयिकविदिक्षु चैकप्रदेशात्मकत्वान्न गमागम सम्भवः इति अटवीजलादिना व्याघाते तु त्रिदिक्को दिदिक्क एकदिको वाऽवग्रहो भावनीयः ॥९॥ वासावासं पज्जोसवियाणं कप्पइ निग्गंथाणा वा निग्गंथीण वा सव्वओसमंता सकोसं जोअणं भिक्खायरियाए गंतु पडिनियत्तए ॥ १० ॥ जत्थ नई निचोयगा निच्चसंदणा नो से कप्पइ सवओ समंता सकोसं जोअणं भिक्खायरियाए गंतु पडिनियत्तए ॥ ११ ॥
व्याख्या-जत्थनईत्यादि, नदीत्यादि नित्योदका-नित्यमस्तोकजला नित्यस्यन्दना सततवाहिनी ॥ १० ॥ ११ ॥