________________
म्याश्चतुर्थ्या वाऽऽरभ्य कार्तिकचतुर्मासिकान्तः सप्ततिदिनमान एवाक्तो न पुनः शतदिनमानः । कश्चित्तु 'चाउम्मासुकोसो सत्तरि राइंदिया जहन्नेणं 'ति वचनादेकससतिदिनादारभ्यैकदिनोनचातुर्मासकं यावन्म| ध्यममवग्रहं स्वीकृत्य पर्युषणानन्तरं मासवृद्धौ दिनानां शतमपि न दोषायेति धाष्टर्थमवलम्बते, तद्युक्तम्,
मध्यमत्वमपि पश्चाशदिनलक्षणानियतावग्रहरुपात् पञ्चपञ्चदिनवृद्ध्या हान्या वा स्यान्न पुनः पर्युषणानन्तरकामपि दिनवृद्धथा अन्यथा कार्तिकचतुर्मासकानेयत्यं स्यादित्यलं प्रपश्चेनेति । उत्कर्षतो वर्षायोग्यक्षे
राऽभावे आषाढमासकल्पेन सह पाश्चात्यवृष्टिसद्भावान्मार्गशीर्षेणापि सह पाण्मासिक इति । द्रव्य १ | क्षेत्र काल३ भाव४ स्थापना चैवं- द्रव्यस्थापना-तृग-डगल-छार-मल्लकादीनां परिभोगः सचित्तादीनां च परिहारः, तत्र च सचित्तद्रव्यं शिष्यो न प्रव्राज्यते अतिश्रद्धं राजानं राजामात्यं च विना, अचित्तद्रव्यं वस्त्रादि न गृह्यते, मिश्रद्रव्यं च सोपधिकः शैक्षः, एवमाहारविकृतिसंस्तारकादिद्रव्येषु परिभोगपरिहारौ योज्यौ १, क्षेत्रस्थापना-सक्रोश योजन ग्लानवैद्यौषधादौ च कारणे चत्वारि पञ्च वा योजनानि २ | कालस्थापना-चत्वारो मासा यच तत्र कल्पन्ते ३ भावस्थापना-क्रोधादीनां विवेकः ईर्याभाषादिसमितिषु | चोपयोग ४ इति ॥७।८॥ वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा निग्गंथीण वा सवओ समंता सकोसं जोअणं ओग्गहं ओगिण्हिता णं चिट्ठिउ अहालंदमवि ओग्गहे ॥९॥