________________
कल्प ॥ ४॥
दीपिका सङ्गतम् , यतस्तदधिकरणादिदोषाद्यभावेन गृहिज्ञातमात्रापेक्षया पर्युषणाकरणं न तु सांवत्सरिकप्रतिक्रम- दीपिका णादिविशिष्टं पर्वापि, अन्यथा “आसाढइपुण्णिमाए पज्जोसविंति एस उसग्गो सेसकालं पज्जोसविताणं सव्वो अववाओ"त्ति श्रीनिशीथचूर्णिदशमोद्देशकवचनादाषाढपूर्णिमायामौत्सर्गिकमेव पर्व करणीयं स्यात् नापवादिकान्यपराणि, अथवा 'इत्थ य पणगं पणगं, कारणिअं जा सवीसइमासो। सुद्धदसमीट्ठिआणं, आसाढीपुण्णिमोसरणं ॥१॥' इति श्रीपर्युषणाकल्पनियुक्त्यादिवचनादाषाढशुद्धदशम्या आरभ्य पञ्चसु पञ्चसु दिनेषु गतेषु पर्युषणा कृता विलोक्यते, तथाविधाने च पर्वणोऽनयत्यात्। “तत्थ णं बहवे भवणवइवाणमंतर-जोइसिआ-वेमाणिआ देवा चाउम्मासिअ पाडिवएसु पज्जोसवणाए अण्णेसु अ बहसु जिणजम्मणनिक्खमणनाणुप्पायपरिनिव्वाणमाइएसु अ देवकज्जेसु अ देवसमुदएसु अ देवसमितीसु अ देवसमवाएसु अ देवपओअणेसुअएगयातोसहिआ समुवागया समाणा पमुइअपक्कीलिआ अट्ठाहिया रूवाओ महामहिमाओ करेमाणा पालेमाणा विहरंति"त्ति श्रीजीवाभिगमोक्तामष्टाह्निकां देवादयः क कुर्युः अतो भाद्रसितपञ्चम्या अर्वाग् आषाढपूर्णिमाया आरभ्य ये येपर्युषणाप्रकारास्ते सर्वेऽपि श्रीपर्युषणाकल्पकर्षणपूर्वकवर्षासामाचारीस्थापनरूपा एव, न तु सांवत्सरिकप्रतिक्रमणादिविशिष्टाः। नन्वेते पर्युषणाप्रकाराः सम्प्रति । कथं न क्रियन्ते ? उच्यते-व्यवच्छिन्नत्वात् । तथाऽभिवर्द्रितवर्षे विंशत्यादिदिनै क्रियमाणगृहिज्ञातावस्थानरुपपर्युषणाप्रकारस्याऽपि व्यवच्छिन्नत्वात् सम्प्रति तदपि कर्तुमनुचितं, तर्हि प्रतिक्रमणादिकृत्यानि तु दूरापास्तान्यवेति। अतो भाद्रपद एव पर्युषणापर्व विधेयं ततश्च कालावग्रहोऽपिजघन्यतो भाद्रपदसितपश्च