________________
तदनङ्गीकारः सुतरां सिद्ध एव, अतएवाऽस्तामन्योऽभिवड़ितो भाद्रपदधृनौ प्रथमभाद्रपदोऽपि पर्युपणाकृत्येषु अनधिकृत एव अभिवतिप्रथमतिथिरिव तदीयकृत्येष्विति । तथाहि-विवक्षितं हि पाक्षिकप्रतिक्रमणं तच चतुर्दश्यां नियतं सा च यद्यपि वर्द्धिता तदा प्रथमां परित्यज्य द्वितीयाऽङ्गीकार्या दिन | गणनायां त्वस्याः अन्यासां च वृद्वौ सम्भवन्तोऽपि षोडश दिनाः पञ्चदशैव गण्यन्ते । एवं क्षीणायामपि चतुर्दश्यादितिथौ पञ्चदशैवेति बोध्यं । तद्ववाऽपि विवक्षितं सांवत्सरिकप्रतिक्रमणादिकृत्यं तच्च नियतं भाद्रपदे स च यद्यपि व ते तदा प्रथमं परित्यज्य द्वितीयोऽधिक्रियते दिनगणनायां त्वस्याऽन्यस्य वाम मासस्य वृद्धौ सम्भवन्तोप्यशितिदिनाः पश्चाशदेव गण्यन्ते यथा तवाऽप्यभिमता पञ्चमास्यपि चउभासीति। तथा सहकारादयोऽचेतना प्रशस्तवनस्पतयोऽप्यधिकमासे प्रथममासं परित्यज्य द्वितीयमासे पुष्पफलादिकं प्रयच्छन्ति, यदुक्तम् आवश्यकनियुक्तो-"जइ फुल्ला कणिआरया, चूअग अहिमासयंमि घुटमि । तह न खमं फुल्लेउ, जइ पच्चंता करिति डमराई ॥१॥। तेन व्यवस्थितमिदं येन गच्छावणादि। मासो नियतपर्युषणापर्वादिकृत्येध्वनाधिकारी किन्तु भाद्रपदादिरेवेति, न च पर्युषगापर्वणो भाद्रपदमासनैयत्यवत् पञ्चमीदिननियतत्वमपि चूयादिषु दृश्यते तत्कथं चतुर्थ्या क्रियते इति शनीयम् युगबधानश्रीकालकसूरेः पूर्व पञ्चम्येव इदानीं तु 'अन्तरा वि असे कप्पइ' इत्यागमानुसारेण तेन प्रवर्तिता सकलसङ्घ सम्नना च चतुर्येव संवत्सरपर्वाऽधिकारिणीति स्थिता। यत्तु कश्चित् 'अभिवडिअंमि वीसाइअरेसु सवीसइमासो'त्ति अक्षरबलेन विंशत्या दिनाचादिपञ्चकृत्यविशिष्टं पर्युषणापर्व करोति तदप्यत्यन्ता