________________
छलूए रोहगुत्तेत्ति विवादावसरे द्रव्य १ गुणर कर्म३ सामान्य विशेषः समवायद रूप षट्पदार्थप्ररूपMणात् षट्, उलूकगोत्रोत्पन्नत्वेन उलूका, उलूकगोत्रत्वमेव दर्शयति कोसियगुत्तण ति उलूककौशिकशब्दयोNर्थभेद इति । तेरासित्ति त्रैराशिकाः जीव१ अजीवर नोजीवरूपराशित्रयप्ररूपकास्तच्छिष्यप्रशिष्या
स्तदुत्पत्तिस्त्वेवं____ "अन्तरञ्जिकानगर्या भूतोद्याने श्रीगुप्ताचार्याः प्राप्तास्तच्छिष्यश्च रोहगुप्तः 'विद्यया मे उदरं स्फुटतीति' बद्धपट्टेन वादार्थमागतेन वृश्चिक १ सर्प २ मूषक ३ मृगी ४ वराही ५ काकी ६ शकुनिका ७ रूपसप्तविद्यावता पोहलाभिधपरिव्राजकेन वाद्यमानं पटहं पस्पर्श । तदनु वादे समुपस्थिते गुरुभ्यः तत्सप्तविद्याप्रतिपक्षा मयूरी १ नकुली २ बिडाली ३ व्याधी ४ सिंही ५ उलूकी ६ उलावकी ७ रूपा विद्याः शेषोपद्रवनाशकं रजोहरणं च प्राप्य रोहगुप्तो राजसभायां गतो। ___ गुरुदत्तविद्याभिस्तद्विद्याः प्रतिहत्य तेन जीवाऽजीव-लक्षणपक्षवयस्वीकारे कृते तबुद्धिपराभवार्थ जीव १ अजीव २ नोजीव ३ इति राशित्रयं व्यवस्थाप्य तं च विजित्य महताऽऽडम्बरेण गुरुपार्श्वमागत्य गुरुभ्यः सर्वमचीकथत् । श्री गुरुभिरूचे 'वत्स! साधु कृतं परं नोजीवव्यवस्थापनं उत्सूत्रमिति तत्र गत्वा मिथ्यादुष्कृतं देहि” इति, तेन च कथं तथा प्रज्ञाप्य स्वयमेव तत्र गत्वा मिथ्यादुष्कृतं ददामीति सञ्जाताऽहङ्कारेण गुरुणा सह राजसभायां षण्मासी यावद् बादबक्रे, कुत्रिकापणाजीव १ अजीव २ नोजीव ३