Book Title: Jambudwip Part 02
Author(s): Vardhaman Jain Pedhi
Publisher: Vardhaman Jain Pedhi
View full book text
________________
कायादिपदार्था यस्मिन् क्षेत्रे सन्ति, सोऽपि लोक एव ।
1
"
1
अत्र षड् द्रव्याणि यस्मिन् विलसन्ति स चतुर्दश राजलोक' इत्यर्थोऽस्त्यभिप्रेतः, अस्य लोकस्याकारो द्वौ पादौ विस्तार्य कटिप्रदेशे द्वावेव हस्तौ निवेश्योपस्थितस्य पुरुषस्येव वर्त्तते अस्य लोकस्योर्ध्वाधस्तिर्यक् चेति त्रयो भागा विद्यन्ते । तत्र नाभिभागस्थ - तिर्यग्लोकस्य मध्ये विद्यमानाया रत्नप्रभानाम्न्या पृथ्याः समतल भूभागे जम्बूद्वीपादयो द्वीपा लवणादयश्च समुद्राः सन्ति, तत्रैव मध्ये सर्वतो लघुरेकलक्षयोजन - दैर्ध्य - विस्तारशाली स्थाल्याकारो वृत्तरूपो जम्बूनामा द्वीपोsस्ति ।
अस्य निबन्धस्य मुख्य - प्रतिपाद्यवस्तुतयाऽत्र केवलं जम्बूद्वीपस्यैव शास्त्रीयं स्वरूपं किश्चित् प्रस्तुमः ।
जैन - मान्यतानुसारं चतुर्णा घातिकर्मणां क्षयं विधाय श्रीतीर्थङ्कर - भगवन्तः केवलज्ञानं शुद्धस्वरूपं प्राप्नुवन्ति । केवलज्ञानरूपे दर्पणे ते यादृशं जगतः पश्यन्ति, तादृशमेव वर्णयन्ति । आगमेषु तदेव वर्णनं विद्यते । इत्थं तिर्यग्लोकस्य मध्ये प्रथमो जम्बूद्वीपोऽस्ति । तस्य मध्ये मेरुपर्वतः । तस्य जम्बूद्वीपस्य सर्वतः कङ्कणाकारेण समुद्रा द्वीपाश्च वर्तते ।
जम्बूद्वीपे षट् पर्वताः सन्ति, तस्मादस्य सप्त ( भागाः ) क्षेत्राणि जातानि । तानि दक्षिणत उत्तरभागं प्रति गच्छन्ति । मेरुपर्वतस्य पूर्वपश्चिमभागयोर्महाविदेह - क्षेत्रं विद्यते, तथोत्तरदक्षिणभागयोस्त्रयः पर्वतास्त्रीणि च मनुष्यक्षेत्राणि
२
R
Jain Education International
क्रमशः सन्ति । अर्थात् मेरुपर्वताद् दक्षिणस्यां निषधपर्वतस्तदनन्तरं हरिवर्षक्षेत्रं, ततो हिमवत् पर्वतः पश्चाद् हिमवत्क्षेत्रं तदनन्तरं लघुहिमवत्पर्वतस्ततश्च भरतक्षेत्रं विद्यते ।
भरतक्षेत्रस्य च वैताढ्य पर्वतेन पूर्वपश्चिमातेन द्वौ भागौ उत्तरभरतं, दक्षिणभरतं च ।
तस्य दक्षिण - भरतस्य गंगासिंधुभ्यां द्विधा कृतस्य मध्यखण्डे दक्षिण-पश्चिम - कोणे (अष्ट-सहस्र) ८००० मीलमितव्यासवति क्षेत्रे साम्प्रतिकं अस्मदीयं विश्वं वर्तते ?
एवं मेरुपर्वतस्योत्तरभागे नीलवत्पर्वता - दनन्तरं रम्यकक्षेत्रं, ततो रुक्मीपर्वतः, ततो हिरण्यवत्क्षेत्रम्, हिरण्यवतः क्षेत्रादग्रे शिखरी पर्वतः, पश्चादैरवतक्षेत्रमस्मत्-भरत क्षेत्रसदृशं षट्खण्डात्मकं वर्तते ।
अस्मिन् जम्बूद्वीपे - २६९ शाश्वताः पर्वताः सन्ति ।
४६७ शाश्वत - पर्वतकूटा : ( शिखराणि) सन्ति । १०२ शाश्वत - तीर्थानि ( नदी - समुद्रसङ्गमा : ) सन्ति ।
१३६ श्रेणयः ( विद्याधराणामाभियोगिकदेवानां ) सन्ति ।
३४ विजया वर्त्तन्ते ।
१६ बृहद् - द्रहाः ( कुण्डानि ) सन्ति । १४,५६,००० शाश्वत्यः नद्यो विद्यन्ते । ८४ महानद्यः सन्ति ( शाश्वत्यः > ता एतदनुसारं ६४३२ विजयानां नद्यः सन्ति । ( प्रत्येकं विजस्य द्वद्वे नद्यौ )
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190