SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ कायादिपदार्था यस्मिन् क्षेत्रे सन्ति, सोऽपि लोक एव । 1 " 1 अत्र षड् द्रव्याणि यस्मिन् विलसन्ति स चतुर्दश राजलोक' इत्यर्थोऽस्त्यभिप्रेतः, अस्य लोकस्याकारो द्वौ पादौ विस्तार्य कटिप्रदेशे द्वावेव हस्तौ निवेश्योपस्थितस्य पुरुषस्येव वर्त्तते अस्य लोकस्योर्ध्वाधस्तिर्यक् चेति त्रयो भागा विद्यन्ते । तत्र नाभिभागस्थ - तिर्यग्लोकस्य मध्ये विद्यमानाया रत्नप्रभानाम्न्या पृथ्याः समतल भूभागे जम्बूद्वीपादयो द्वीपा लवणादयश्च समुद्राः सन्ति, तत्रैव मध्ये सर्वतो लघुरेकलक्षयोजन - दैर्ध्य - विस्तारशाली स्थाल्याकारो वृत्तरूपो जम्बूनामा द्वीपोsस्ति । अस्य निबन्धस्य मुख्य - प्रतिपाद्यवस्तुतयाऽत्र केवलं जम्बूद्वीपस्यैव शास्त्रीयं स्वरूपं किश्चित् प्रस्तुमः । जैन - मान्यतानुसारं चतुर्णा घातिकर्मणां क्षयं विधाय श्रीतीर्थङ्कर - भगवन्तः केवलज्ञानं शुद्धस्वरूपं प्राप्नुवन्ति । केवलज्ञानरूपे दर्पणे ते यादृशं जगतः पश्यन्ति, तादृशमेव वर्णयन्ति । आगमेषु तदेव वर्णनं विद्यते । इत्थं तिर्यग्लोकस्य मध्ये प्रथमो जम्बूद्वीपोऽस्ति । तस्य मध्ये मेरुपर्वतः । तस्य जम्बूद्वीपस्य सर्वतः कङ्कणाकारेण समुद्रा द्वीपाश्च वर्तते । जम्बूद्वीपे षट् पर्वताः सन्ति, तस्मादस्य सप्त ( भागाः ) क्षेत्राणि जातानि । तानि दक्षिणत उत्तरभागं प्रति गच्छन्ति । मेरुपर्वतस्य पूर्वपश्चिमभागयोर्महाविदेह - क्षेत्रं विद्यते, तथोत्तरदक्षिणभागयोस्त्रयः पर्वतास्त्रीणि च मनुष्यक्षेत्राणि २ R Jain Education International क्रमशः सन्ति । अर्थात् मेरुपर्वताद् दक्षिणस्यां निषधपर्वतस्तदनन्तरं हरिवर्षक्षेत्रं, ततो हिमवत् पर्वतः पश्चाद् हिमवत्क्षेत्रं तदनन्तरं लघुहिमवत्पर्वतस्ततश्च भरतक्षेत्रं विद्यते । भरतक्षेत्रस्य च वैताढ्य पर्वतेन पूर्वपश्चिमातेन द्वौ भागौ उत्तरभरतं, दक्षिणभरतं च । तस्य दक्षिण - भरतस्य गंगासिंधुभ्यां द्विधा कृतस्य मध्यखण्डे दक्षिण-पश्चिम - कोणे (अष्ट-सहस्र) ८००० मीलमितव्यासवति क्षेत्रे साम्प्रतिकं अस्मदीयं विश्वं वर्तते ? एवं मेरुपर्वतस्योत्तरभागे नीलवत्पर्वता - दनन्तरं रम्यकक्षेत्रं, ततो रुक्मीपर्वतः, ततो हिरण्यवत्क्षेत्रम्, हिरण्यवतः क्षेत्रादग्रे शिखरी पर्वतः, पश्चादैरवतक्षेत्रमस्मत्-भरत क्षेत्रसदृशं षट्खण्डात्मकं वर्तते । अस्मिन् जम्बूद्वीपे - २६९ शाश्वताः पर्वताः सन्ति । ४६७ शाश्वत - पर्वतकूटा : ( शिखराणि) सन्ति । १०२ शाश्वत - तीर्थानि ( नदी - समुद्रसङ्गमा : ) सन्ति । १३६ श्रेणयः ( विद्याधराणामाभियोगिकदेवानां ) सन्ति । ३४ विजया वर्त्तन्ते । १६ बृहद् - द्रहाः ( कुण्डानि ) सन्ति । १४,५६,००० शाश्वत्यः नद्यो विद्यन्ते । ८४ महानद्यः सन्ति ( शाश्वत्यः > ता एतदनुसारं ६४३२ विजयानां नद्यः सन्ति । ( प्रत्येकं विजस्य द्वद्वे नद्यौ ) For Personal & Private Use Only www.jainelibrary.org
SR No.005568
Book TitleJambudwip Part 02
Original Sutra AuthorN/A
AuthorVardhaman Jain Pedhi
PublisherVardhaman Jain Pedhi
Publication Year
Total Pages190
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy