Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press
View full book text
________________
४८
काव्यमाला |
मम मतिर्बुद्धिः शक्तिर्बलं च अस्ति । तस्मात्त्वम् आगच्छ युद्धं संपादय । स्वं रिपुवंशदावं रिपोर्वशं द्यतः खण्डयतो जनान् अवति रक्षति तं धरोत्थं धराया उत्था उत्थतिर्यस्मात्तम्, दशकं 'सत्यं शौचं तथा शौर्य स्थैर्ये शौण्डीर्यधीरते । क्षमा गम्भीरता चैव नैष्टुर्य पि मन्त्रिता ॥ एतैरवयवैर्युक्तो जिगीषुः पृथिवीपतिः ॥ इत्युक्तलक्षणा दश अवयवा यस्य तमू, मत्तो मत्सकाशात्, प्रतापं कथं न वेत्सि ॥ श्लेषः ॥
इतीरयित्वा हितकम्प वेगं दष्टाधरं स्फारितरक्तनेत्रम् |
भ्रूभङ्गजिह्यं कृतसिंहनादं जग्राह कार्य भरतान्वयस्य ॥ ३० ॥
इतीति ॥ असौ शूर्पणखा, कीचकश्च, इत्येवं प्रकारेण, ईरयित्वा अभिधाय, आहितकम्पवेगमारोपितकम्पजवम्, दष्टाधरं चर्वितोष्ठम्, स्फारितरक्तनेत्रम् प्रसारितलोहितलोचनम्, भ्रूभङ्गजिह्यं भ्रूभङ्गमन्दम् कृतसिंहनादं विस्तीर्णसिंहनादम्, यथा स्यात्तथा भरतावयस्य भरतानुजस्य लक्ष्मणस्य, सोमवंश्यस्य भीमस्य च, कायं जग्राह ॥
चकम्पिरे किंपुरुषा भयेन दिशां विनेशुर्नगजा गजाश्च । मर्मप्रहारैः परुषैर्वचोभिस्तयोरभूत्तत्र महान्विमर्दः ॥ ३१॥
चकम्पिर इति ॥ तत्र दण्डकारण्ये तयोर्लक्ष्मणशूर्पणखयोः, मर्मप्रहारैर्मर्मच्छिद्भिः परुषैः कठोरैः, वचोभिः महान् विमर्दो युद्धम् अभूत । तदा किंपुरुषा देवविशेषाः, चकम्पिरे, दिशां गजा नगजा पर्वतजाश्च विनेशुः यद्वा पुरुषा एव किं चकम्पिरे अपि तु किंपुरुषा अपि । नगजा एव गजा किं विनेशुः । अपि तु दिशां गजाः ॥ भारतीये – तत्र विराटभूमौ तयोर्भीमकीचकयोः । तदा पुरुषा युधिष्ठिरादयः किं चकम्पिरे । अपि तु न । दिशां नगजाश्च गजाः । किं विनेशुः । अपि तु न ॥ श्लेषः ॥
-
असंस्तुतं प्राप्य ततो निकारं भीमेन तेनोपहतात्मवृत्तिः । देशादयासीन्नियमेन कर्तुं क्षणादसौ विग्रहपीडितानि ॥ ३२ ॥
असंस्तुतमिति ॥ भीमेन भयानकेन, तेन लक्ष्मणेन, उपहतात्मवृत्तिः भग्नस्वरूपा, असौ शूर्पणखा ततो लक्ष्मणतः असंस्तुतमपरिचितं निकारं पराभवं प्राप्य नियमेन अवश्यम् विग्रहपीडितानि युद्धमर्दनानि कर्तुं क्षणादन्तर्मुहूर्तात् देशाद्दण्डकारण्यतः, अयासीत् अपगता || भारतीये – तेन भीमेन वृकोदरेण, असौ कीचकः । ततो भीमतः । विग्रहपीडितानि तपश्चर्यया शरीरकदर्थनानि । देशाद्विराटभूमितः ॥
तथावधूतोऽपकृतिं गतोऽपि जित्वा शेषं संयममेत्य राजा ।
स वैरसंदेहमयं विहाय न्यायानुवृत्तिं पदवीं प्रपेदे ॥ ३३ ॥
तथेति ॥ सोऽयं राजा लक्ष्मणः, तथा तेन प्रकारेण वधूतो नारीतः शूर्पणखाया: सकाशात् अपकृतिमपकारं गतोऽपि सन् रुषं जित्वा संयमम् एत्य वैरसंदेहं विहाय न्यायानुवृत्तिं नीत्यनुयायिनीं पदवीं मार्ग प्रपेदे ॥ भारतीये - अपकृतिं गतोऽपि स राजा की -

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230