Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 170
________________ काव्यमाला । इत्युक्तेः, सूर्यतुल्यतेजस्को जयद्रथः तत्र प्रकुप्यन् रिपुं वशं न न चकार । चकारैव । ४॥ चतुरर्थकश्लोकः ॥ संरम्भिणाशान्तनवेन मुक्तः क्षोभेण भूरिश्रवसाम्बरेण । स्वयंभुवा वाग्गुरुणा न सोढः स सिंहनादः कृतवर्मणा च ॥ १६ ॥ (पञ्चार्थकः) संरम्भीति ॥ य आशान्तनवेन आशान्ते नवः स्तुतिर्यस्य, भूरिश्रवसां प्रचुरयशसां स्वयं शोभनोऽयः शुभावहो भाग्यवहो विधिर्यत्र वरकर्मणि यथा स्यात्तथा वरेण श्रेष्ठेन, वाग्गुरुणा वचनगरिष्ठेन, कृतवर्मणा विहितसंनाहेन, संरम्भिणा मेघनादेन रावणात्मजेन, क्षोभेण सिंहनादो मुक्तः, स सिंहनादो भुवा भूम्या न सोढः । (१)। संरम्भिणा राभस्यवता, शान्तनवेन शान्तेन उपशमवता नवेन यूना, आम्बरेण गगनचारिणा । दूतत्वारोपादण् । गुरुणा गरिष्ठेन, भूरिश्रवसा कुम्भकर्णपुत्रेण, स्वयमात्मना, क्षोभेण अवाग् अव अञ्चति यत्र कर्मणि यथा स्यात्तथा। (२)। भारतीये-संरम्भिणा औत्सुक्यवता, भूरिश्रवसा प्रचुरयशसा। शान्तनवेन भीष्मेण । गुरुणा सर्वपितामहेन। अम्बरण गगनेन पृथ्व्या च । (३) । गुरुणा द्रोणाचार्येण । स्वयंभुवा अयोनिजेन । (४) । कृतवर्मणा राज्ञा । संरम्भिणा कुपितेन । गुरुणा बृहस्पतिना, महता वा । अम्बरेण नभसा । भुवा च । (५) ॥ पश्चार्थकः ॥ रथानिमेऽन्ये च समं नरेन्द्राः प्रपूरिताशानथवाजियुक्तान् । आपूरयन्ति स्म मनोरथांश्च किं नोद्यतानामुपपद्यते च ॥ १७ ॥ रथानिति ॥ अथ इमे रावणजरासंधपक्षस्थाः, अन्ये राघवपाण्डवपक्षस्था: नरेन्द्राः प्रपूरिताशान् प्रपूरिता आशा दिशो यैस्तान् वाजियुक्तान् हययुतान् रथान्, अथवा प्रपूरिताशान् पूरिताभिलाषान् आजियुक्तान् रणयुक्तान् मनोरथान् आपूरयन्ति स्म । उद्यतानां किं न उपपद्यते ॥ स्वयं परान्नामयसीति भर्तुळ स्त्रीनवोढेव पुरंध्रिवर्गः । बलात्कृता राजभिरङ्गलग्ना वक्रस्य भूयो धनुषः खरस्य ॥ १८ ॥ स्वयमिति ॥ राजभिर्वक्रस्य खरस्य निष्ठरस्य धनुषोऽङ्गलमा ज्या भर्तुः स्वामिनः पराशत्रून् नामयसि नामयिष्यसि इति हेतोः स्वयं बलात्कृता दृढीकृता । वक्रस्य कुटिलस्य खरस्य कस्यापि अङ्गलमा सती नवोढा स्त्री परान् उत्कृष्टान् नामयसि अधोमुखान् करिष्यसि इति हेतोः पुरंध्रिवर्गः प्रौढमहिलाकदम्बैर्भर्तुः स्वामिनो विषये बलात्कृता दृढीकृता इव । 'पुरा' इति पाठे पुरा पूर्वकाले दृढीकृता ॥ जीवाभिघातं कृतधर्मपीडं न्याय्येषु मार्गेषु निषक्तचित्ताः । ते सत्यसंधाः सुधियोऽपि चक्रुर्यों यादृशः कर्म च तस्य तादृक् ॥१९॥ जीवेति ॥ जीवाभिघातं प्राण्यभिघातं, प्रत्यञ्चाविस्फारणं च। कृतधर्मपीडं विहितसुकृ.

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230