Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press
View full book text
________________
१७२
काव्यमाला।
खामिना उपाध्यायेन । उपेक्षितोऽवज्ञातः। सोऽयं विश्वोऽपि राजा शिष्य इव । यथेष्टं कर्तुम् उदियाय ॥
आस्थायुकः स्यन्दनमन्तरिक्षमापातुकस्तोयनिधेरशेषः । विपक्षयुद्धान्यभिलाषुकोऽयं वेलोद्यतो ग्राह इवाबभासे ॥ ४६ ॥ ..
आस्थायुक इति ॥ स्यन्दनं रथं, प्रवाहं वा । आस्थायुकोऽधितिष्ठन् । अन्तरिक्ष गगनम् आपातुक आपतन् । विपक्षयुद्धानि शत्रुरणानि, पक्षिपक्षरणानि वा । अभिलाएकोऽभिलषन् । वेलोद्यतः पर्यायोद्यतः वा इलोद्यतो धराग्रहणोद्यतः । अयम् अशेषो रा. जसमूहः । तोयनिधेलोद्यतो वेलोच्छलितः, ग्राह इव । आबभासे ॥
भ्रूभङ्गमात्रेण परस्य भङ्गं ज्याघातमात्रेण नृपाभिघातम् । ते चक्रुरारोपितचापचकाः स्वायासतन्त्रं हि जयं निराहुः ॥ ४७ ॥ भ्रूभङ्गेति ॥ स्वायासतन्त्रम् आत्मप्रयत्नाधीनम् ॥ स्थिते समर्थे सति दक्षिणाङ्गे वामोऽङ्गभागः प्रथमोऽग्रगोऽभूत् । अकल्पभूयोपनतं विनेतुं जन्ये व्यवस्यन्निव जन्यमेषाम् ॥ ४८ ॥ स्थित इति ॥ जन्ये रणे अकल्पभूयोपनतमसंकल्पप्रवृत्तं जन्यं 'वामोऽयं प्रतिकूलोऽयम्' इति जनापवादं विनेतुं दूरीकर्तुं व्यवस्यन् निश्चिन्वन् इव ॥
द्राविम्नि बाह्वोरुरसः प्रथिम्नि प्रसर्पति स्याद्यदि शकचापम् । तदा कृतज्यं तदपि प्रभूणां नाकर्षणस्य प्रभवेदवैमि ॥ ४९ ॥ द्राघिनीति ॥ बाह्वोर्भुजयोः, द्राघिम्नि दीर्घत्वे, उरसो वक्षसः प्रथिम्नि विस्तारे प्रस. पति सति, यदि शक्रचापमपि कृतज्यं स्यात्, तदा तदपि प्रभूणाम् आकर्षणस्य न प्रभवेदिति अवैमि जाने ॥
पुरः प्रसने धनुषा द्विषयः पलायनं सूचयतेव पश्चात् । ज्ययापजग्मे भुजवीरलक्ष्मी संवर्धयत्येव जयस्य दिष्ट्या ॥ ५० ॥
पुर इति ॥ द्विषद्भयः पलायनं सूचयतेव धनुषा पुरः प्रसस्र प्रसृतम् । जयस्य भुजवीरलक्ष्मी दिष्ट्या संवर्धयत्या इव ज्यया पश्चादपजग्मे ॥
तेऽपातयन्मार्गणमेष वाहं सोऽप्यश्ववारं हृदयं निषादी। नान्यान्यपातानुगतं व्यमुञ्चन्विमार्गसंपातभियेव बाणाः ॥ ११ ॥ तेऽपातेति ॥ ते नरेन्द्रा मार्गणं बाणम् अपातयन्, एष बाणो वाहमश्वम्, सोऽपि वाज्यपि अश्ववारम्, निषादी अश्ववारो हृदयम्, अपातयत् । एवम् अन्यान्यपातानुगतं परस्य परस्य पातस्यानुगतमनुगमनम् विमार्गसंपातभिया अमार्गपातभयेनेव बाणा न व्यमुञ्चन् ॥

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230