Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 199
________________ १७ सर्गः ] द्विसंधानम् । १९९ इत्येति ॥ इन्दुर्बालामुखस्य अन्यद्रागम् अन्यं रागं वीक्ष्य मृगाणां नाभिगन्धं कस्तूरीम्, आशंसुः श्लाघमान इव मृगस्य नाभेरामोदोऽपि मे मम न इति हेतोः हा कष्टेन अङ्कात्मव्यङ्गम् लाञ्छनस्वरूपकलङ्कम् आधात् धृतवान् इव ॥ शालिनी ॥ ग्लानिं मुक्तामण्डपे तन्तुजालं व्यासीदन्तश्चन्द्रकान्ताः करेण । राज्ञां भोगे सुस्रुवन्तोऽपरोधं रोद्धुं चन्द्रेणाभिनुन्ना इवाभुः ॥ ८१ ॥ ग्लानिमिति ॥ चन्द्रकान्ताश्चन्द्रकान्तमणयो मुक्तामण्डपे मौक्तिकजनाश्रये करेण एकैककिरणेन तन्तुजालं तन्तुसमूहं व्यासीदन्तो गच्छन्तः सन्तः, अपरोधं निरर्गलं यथातथा सुस्रुवन्तो जलबिन्दून् मुञ्चन्तः, चन्द्रेण राज्ञां नरेद्राणां भोगे सुरतव्यापारे ग्लानिं श्रमं रोद्धुम् अभिनुन्नाः सामस्त्येन प्रेरिता इव, आभुः प्रद्योतन्ते स्म ॥ अरण्यवृत्तेरुदवासकर्मणः स पुष्पभाराहरणाच्च मारुतः । श्रमं विनिन्ये परिरभ्य कामिनीस्तपोऽन्तरेणासुलभा हि तादृशः ॥८२॥ अरण्येति ॥ मारुतो वातः, अरण्यवृत्तेर्वनवर्तनात्, उदवासकर्मणो जलस्थितिविधा - नात्, पुष्पभाराहरणात् कुसुमनिकरानयनात्, ( एतेन मन्दत्व - शीतलत्व- सुरभित्व-लक्षणैस्त्रिभिर्गुणैः) कामिनीः परिरभ्यालिङ्गय, श्रमं सुरतखेदं विनिन्ये परित्याजितवान् । हि यतः तादृशः कामिन्यः तपस्तपश्चरणम् अन्तरेण विना असुलभा दुर्लभाः ॥ वंशस्थम् ॥ इति विविधरतेन राजलोकैः क्षणमिव न क्षणदा गतापि जज्ञे । शशिनि शशकदर्शनस्य शङ्कां स्वमनसि मानयितुं कृतत्वरेव ॥ ८३ ॥ इतीति ॥ राजलोकैर्गतापि क्षणदा निशा इत्येवंप्रकारेण विविधरतेन नानासंभोगक्रीडया क्षणम् इवापि न जज्ञे ज्ञाता | शशिनि चन्द्रे शशकदर्शनस्य स्वमनसि स्वचित्ते शङ्कां 'शशी हि कलङ्की तदतिसंसर्गादहमपि कलङ्किनी मा भूवम्' इति वितर्क मानयितुं संभावयितुं कृतत्वरेव जज्ञे ज्ञाता ॥ पुष्पिताग्रा ॥ लघु मोद्गमद्दमणिरप्युदियादिति कान्तयोर्विरहकातरयोः । पततोश्च दोहदमिदं समभूद्विविधाथवा विषयिणां हि रुचिः ॥ ८४ ॥ लध्विति ॥ विरहकातरयोर्भाविवियोग भीतयोः कान्तयोः स्त्रीपुंसयो: 'घुमणि: सूर्यो लघु क्षिप्रं मा उद्गमत् उदयं प्रापत्' इति, विरहकातरयोर्वर्तमान वियोगभीतयोः पततोः पक्षिणोश्चक्रवाकयोस्तु ‘लघु उदियात् उदयं प्राप्यात्' इति इदं दोहदमिच्छा समभूत् ॥ युक्तमेतत् । अथवा यतः विषयिणां विविधा रुचिः स्यात् ॥ प्रमिताक्षरा ॥ आश्लेषमन्तःक्वथनं प्रणामं कामोपदंशानि च चुम्बनानि । दृष्ट्वाङ्गनानामसहा निसोढुं हासादिवासौ स्फुटिता प्रभासीत् ॥ ८१ ॥ आश्लेषमिति ॥ प्रभा प्रभातम् अङ्गनानाम् आश्लेषमालिङ्गनम्, अन्तःक्वथनमन्तःकरणपाकं यथा भवति तथा प्रणामं प्रणतिम्, कामोपदंशानि कंदर्पव्यञ्जनानि चुम्बनानि दृष्ट्वा

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230