SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १७२ काव्यमाला। खामिना उपाध्यायेन । उपेक्षितोऽवज्ञातः। सोऽयं विश्वोऽपि राजा शिष्य इव । यथेष्टं कर्तुम् उदियाय ॥ आस्थायुकः स्यन्दनमन्तरिक्षमापातुकस्तोयनिधेरशेषः । विपक्षयुद्धान्यभिलाषुकोऽयं वेलोद्यतो ग्राह इवाबभासे ॥ ४६ ॥ .. आस्थायुक इति ॥ स्यन्दनं रथं, प्रवाहं वा । आस्थायुकोऽधितिष्ठन् । अन्तरिक्ष गगनम् आपातुक आपतन् । विपक्षयुद्धानि शत्रुरणानि, पक्षिपक्षरणानि वा । अभिलाएकोऽभिलषन् । वेलोद्यतः पर्यायोद्यतः वा इलोद्यतो धराग्रहणोद्यतः । अयम् अशेषो रा. जसमूहः । तोयनिधेलोद्यतो वेलोच्छलितः, ग्राह इव । आबभासे ॥ भ्रूभङ्गमात्रेण परस्य भङ्गं ज्याघातमात्रेण नृपाभिघातम् । ते चक्रुरारोपितचापचकाः स्वायासतन्त्रं हि जयं निराहुः ॥ ४७ ॥ भ्रूभङ्गेति ॥ स्वायासतन्त्रम् आत्मप्रयत्नाधीनम् ॥ स्थिते समर्थे सति दक्षिणाङ्गे वामोऽङ्गभागः प्रथमोऽग्रगोऽभूत् । अकल्पभूयोपनतं विनेतुं जन्ये व्यवस्यन्निव जन्यमेषाम् ॥ ४८ ॥ स्थित इति ॥ जन्ये रणे अकल्पभूयोपनतमसंकल्पप्रवृत्तं जन्यं 'वामोऽयं प्रतिकूलोऽयम्' इति जनापवादं विनेतुं दूरीकर्तुं व्यवस्यन् निश्चिन्वन् इव ॥ द्राविम्नि बाह्वोरुरसः प्रथिम्नि प्रसर्पति स्याद्यदि शकचापम् । तदा कृतज्यं तदपि प्रभूणां नाकर्षणस्य प्रभवेदवैमि ॥ ४९ ॥ द्राघिनीति ॥ बाह्वोर्भुजयोः, द्राघिम्नि दीर्घत्वे, उरसो वक्षसः प्रथिम्नि विस्तारे प्रस. पति सति, यदि शक्रचापमपि कृतज्यं स्यात्, तदा तदपि प्रभूणाम् आकर्षणस्य न प्रभवेदिति अवैमि जाने ॥ पुरः प्रसने धनुषा द्विषयः पलायनं सूचयतेव पश्चात् । ज्ययापजग्मे भुजवीरलक्ष्मी संवर्धयत्येव जयस्य दिष्ट्या ॥ ५० ॥ पुर इति ॥ द्विषद्भयः पलायनं सूचयतेव धनुषा पुरः प्रसस्र प्रसृतम् । जयस्य भुजवीरलक्ष्मी दिष्ट्या संवर्धयत्या इव ज्यया पश्चादपजग्मे ॥ तेऽपातयन्मार्गणमेष वाहं सोऽप्यश्ववारं हृदयं निषादी। नान्यान्यपातानुगतं व्यमुञ्चन्विमार्गसंपातभियेव बाणाः ॥ ११ ॥ तेऽपातेति ॥ ते नरेन्द्रा मार्गणं बाणम् अपातयन्, एष बाणो वाहमश्वम्, सोऽपि वाज्यपि अश्ववारम्, निषादी अश्ववारो हृदयम्, अपातयत् । एवम् अन्यान्यपातानुगतं परस्य परस्य पातस्यानुगतमनुगमनम् विमार्गसंपातभिया अमार्गपातभयेनेव बाणा न व्यमुञ्चन् ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy