SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १६ सर्गः] द्विसंधानम् । न सौढवैराधितरौद्रहेतिः स्थिरं तथै पदमन्यसेना । वैराटवीचारभयेन जाता गेहेष्विवाजिष्वपि कस्य गर्जः ॥ ४१ ॥ नेति ॥ अन्यसेना रावणसेना सोढवैराधितरौद्रहेतिः सोढा वैराधित्यो विराधितस्य च. न्द्रोदरपुत्रस्येमा रौयस्तीवा हेतयो यया तादृक् न जाता, तथा तस्या एकं पदं वैराटवीचारभयेन वैराटव्यां विरोधारण्ये चारात्प्रवर्तनात् भयेन, स्थिरं न जातम् ॥ भारतीये-अन्यसेना विपक्षसेना, सोढवैरा सोढं वैरं यया ताकु, रौद्रहेती रौद्यो हेतयो यस्यां तादृक् न जाता, तथैकमपि. पदं वैराटवीचारभयेन वैराटाद् विराटनरेन्द्रकृतात् वीचारान्मारणाद् भयेन स्थिरं न आधित ॥ तं सत्यकोपाहतशत्रुमुच्चैरामन्दमारम्भगभीरनादः । विभीषणः सोऽग्रजवैरभीतः समेत्य नाथं प्रधनं ननाथ ॥ ४२ ॥ तमिति ॥ दमारम्भगभीरनादो दमस्य विद्याभ्यासाय श्रमस्य आरम्भेण गभीरो नादो यस्य, अग्रजवैरभीतोऽग्रजस्य वैरागीतः, स विभीषणः सत्यकोपाहतशत्रु सत्येनाकत्रिमेण कोपेन आहताः शत्रवो येन तं नाथं स्वामिनं रामं समेत्य प्रधनं युद्धं उच्चैरतिशयेन ननाथ ययाचे ॥ भारतीये-उच्चैराः प्रचुरद्रव्यः आरम्भगभीरनादः आरम्भे गभीरो नादो यस्य सोऽग्रजवैः प्रधानजवैविभीषणो भयानकोऽभीतो निर्भयः, सत्यकः कौरवगृह्योऽपाहतशत्रु तं नाथं युधिष्ठिरं मन्दं यथा स्यात्तथा समेत्य ॥ स एष संभूय समुद्यतात्मा विश्वोऽपि विश्वं भुवनं जिगीषुः । राजाध्यपेतो बहुशस्त्रपातो बभूव रागादिरिवात्मतन्त्रः ॥ ४३ ॥ स एषेति ॥ समुद्यतात्मा विश्वं भुवनं जिगीषुरध्यपेतो भिन्नो बहुशस्त्रपातः स एष विश्वोऽपि समस्तोऽपि राजा संभूय मिलित्वा । रागाद् इः काम इव, रागादिरिव वा । आत्मतन्त्रो बभूव ॥ अप्यङ्गसंचारकमङ्गरागं स मन्यमानः कवचं प्रविष्टान् । प्रागेव मन्ये शरणं प्रविष्टान्ध्यायंस्तनुत्रं कथमाददीत ।। ४४ ॥ अप्यङ्गेति ॥ अङ्गरागमङ्गवर्णमेवाङ्गसंवारकमङ्गप्रच्छादकं मन्यमानोऽपि स सम. स्तोऽपि राजा कवचं प्रविष्टान् प्रागेव शरणं प्रविष्टान् प्राप्तान ध्यायन् सन् तनुत्रं कवचं कथं आददीत गृहीयात् इति मन्ये जाने ॥ चिरं निबद्धो नियमेन सोऽयं तीव्रासिधाराव्रतबद्धचित्तः । कर्तु यथेष्टं गुरुणा कथंचिदुपेक्षितः शिष्य इवोदियाय ॥ ४५ ॥ चिरमिति ॥ नियमेन वीरव्रतेन, परिमितकालगृहीतव्रतेन । तीवासिधाराव्रतबद्धचित्तः तीत्रे असिधारारूपवते बद्धचित्तः, तीत्रे असिधारातुल्यव्रते बद्धचित्तः । गुरुणा
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy