________________
१७०
काव्यमाला।
वरूथिनीलङ्घनमन्यसैन्यं ज्वलत्प्रकोपानलमुत्पतन्तम् । दृष्ट्वा यमाकारमरिप्रजातं संहारमह्नाय भुवः शशङ्के ॥ ३६ ॥ वरूथिनीति ॥ अरिप्रजा रावणप्रजा वरूथि वरूथाः सन्ति अस्मिन् रथगुप्तिसहितम् , घनं निबिडम्, अन्यसैन्यं रावणसैन्यम् उत्पतन्तम् , ज्वलत्प्रकोपानलं ज्वलन् प्रकोप एव अनलो यस्य तं यमाकारं यमसदृशं तं नीलं कपीन्द्रं दृष्ट्वा भुवः संहारमहाय झटिति शशङ्के । (१) । ज्वलत्प्रकोपा अरिप्रजा वरूथिनीलङ्घनं सेनालङ्घनं नलं कपीन्द्रम् । (२)॥ भारतीये-अरिप्रजातम् अन्यसैन्यं कर्ट यमाकारं यमलजातं नकुलसहदेवमूर्तिम् ।।
स वानराणां पतिरुग्रसेनः किं वर्मणा स्यात्किल मर्मणेव । परागहीतेन भियेति चित्रं संनद्धवान्सनहनं न भेजे ॥ ३७॥ स वानेति ॥ उग्रसेन उग्रा सेना यस्य स वानराणां पतिः सुग्रीवः मर्मणेव भिया पराच्छत्रोहीतेन वर्मणा संनहनेन किं स्यादिति संनद्धवान् सनहनं न भेजे इति चित्रम् ॥ भारतीये-वा अथवा स नराणां पतिरुप्रसेनस्तदभिधानः ॥ दिधक्षवे लोकमरातिसेनं संधुक्षमाणं द्रुपदेन तेन । क्रोधाग्नयेऽकल्प्यत कोटिकल्पं भामण्डलेनोत्तपताक़तेजः ॥ ३८ ॥ दिधक्षेति ॥ अर्कतेज उत्तपता तेन भामण्डलेन जानकीबान्धवेन लोकं दिधक्षवे क्रोधामये कोटिकल्पं कोटिसंख्याभिः कल्पनीयम् अरातिसेनम् अरातीनां सेनां द्रुपदे दारुस्थाने संधुक्षमाणम् न अकल्प्यत अकल्प्यतैव ॥ भारतीये-भामण्डलेन दीप्तिपरिवेषेण अर्कतेज उत्तपता तेन द्रुपदेन नरेन्द्रेण । अकल्प्यत ॥
तीव्रोद्धवं क्रुद्धमनेकसैन्यं परासुषेणन्तमरिव्रजाय । निर्विज्य नित्यास्तमयात्कथंचिद्वैरोचनी दीप्तिरुपायतेव ॥ ३९ ॥
तीव्रोद्धवमिति ॥ परा उत्कृष्टा, वैरोचनी सौरी दीप्तिः नित्यास्तमयात् अनवरतास्तात् निर्विज्य अरिव्रजाय शत्रुगणाय क्रुद्धम् , तीव्रौद्धवमुग्रगर्वम् अनेकसैन्यं तं सुषेणं वानरेन्द्र कथंचिन्महता कष्टेन उपायत इव ॥ भारतीये-परासुषे निराकृतवतेऽरिबजाय अणन्त. मूर्जन्तम् उद्धवं श्रीकृष्णामात्यं तीव्रा वैरोचनी इव दीप्तिः उपायत । नित्या वैरोचनी दीप्तिः कथंचित् निर्विज्य अस्तम् अयात् ॥
सज्जाम्बवः क्षोभणमभ्यगच्छन्न केवलं वारिधयोऽद्रयश्च । भिन्ना विदूरे विशिखैरमोघं तथा दुरन्तं विदुरस्य शस्त्रम् ॥ ४० ॥ सज्जेति ॥ जाम्बव ऋक्षराट् केवलं शोभणं न अभ्यगच्छत् । किं तु विशिखविंदरे भिन्ना वारिधयः समुद्राः अद्रयः क्षोभणमभ्यगच्छन् । तथा अस्य सच् शस्त्रं दुरन्तं विदुः॥ भारतीये-सज्जाम्बवः सज्जमम्बु येषां तादृशो वारिधयः केवलं क्षोभणं नाभ्यगच्छन् । किंतु अद्रयोऽपि । विदुरस्य धृतराष्ट्रानुजस्य ॥