SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १६९ १६ सर्गः] द्विसंधानम् । तदाशशंसे रणभूमिरेषां प्राज्योचिताङ्गा पतिमात्तबाणा । परासुमज्जातिकृतावलेपा पतिवराभ्यङ्गविधि गतेव ॥ ३२ ॥ तदेति ॥ प्राज्योचिताङ्गा प्राज्यानि प्रचुराणि उचितानि योग्यानि अङ्गानि गजवाजिरथपदातिलक्षणानि यस्यां सा, प्रकृष्टस्य आज्यस्य घृतस्य उचितमङ्गं यस्याः सा । विवाहाङ्गाभ्यङ्गे घृतसंपर्को जायते । आत्तबाणा गृहीतशरा । परासुमज्जातिकृतावलेपा परासूनां शवानां मज्जया अति कृतो अव समन्ताल्लेपो यस्याम्, परासु उत्कृष्टासु असुमज्जातिषु प्राणिजातिषु कृतोऽवलेपो गर्वो यया सा, रणभूमिः, अभ्यङ्गविधि मज्जनक्रियां गता पतिवरा कन्या इव, एषां नरेन्द्राणां पतिं तदा आशशंसे श्लाघते स्म ॥ स्थिराक्षरान्तं युधिशब्दपूर्व नाम प्रसिद्धं भुवनं समस्तम् । यस्य स्तुतेऽद्यापि विनामयुक्तं क्रुद्धः सरामो हि गतिर्नयस्य ॥ ३३ ॥ स्थिरेति ॥ समस्तं भवनं कर्ट यस्य प्रसिद्धं नाम रामेति, स्थिराक्षरान्तं स्थिरोऽवि. चलोऽक्षरस्य मोक्षस्यान्तोऽष्टगुणलक्षणो धर्मों यस्मात्स्तवनकर्मणः तद्यथा स्यात्तथा, शब्दपूर्व शब्दो यशः पूर्वो यस्मात्तद्यथा स्यात्तथा, विनामयुक्तं विनामः प्रणामो युक्तो यत्र तद्यथा स्यात्तथा, अद्यापि स्तुते स्तवीति । स रामः युधि क्रुद्धोऽपि नयस्य गतिः ॥ भारतीये-स्थिराक्षरान्तं 'स्थिर' इति अक्षरं पदम् अन्ते यस्य तत्, युधिशब्दपूर्व 'युधि' इति शब्दः पूर्वो यस्य तत्, विनामयुक्तं विनामेन षत्वेन युक्तं यस्य नाम 'युधिष्ठिरः' इति । यस्य गतिः केनोपायन जीवामीति लक्षणा वर्तना न । स रामः रेण गम्भीरध्व. निना आमेन सान्द्रचेतसा सहितः, स नरेन्द्रः क्रुद्धः ॥ खैरञ्जनानन्दनमाशुकारैर्भीमन्दमानम्रमरातिजातम् । कुर्वन्तमुद्यन्तमुदीक्ष्य सेन्ट्रैर्विसिस्मिये खेऽधिगतैर्विमानम् ॥ ३४ ॥ स्वैरेति ॥ सेन्ट्रैः खेऽधिगतैः खेचरैः स्वैरात्मीयैराशुकारैः शीघ्रकरणैररातिजातं शत्रुजातं भीमन्दं भिया मन्दम् , आननं कुर्वन्तम्, उद्यन्तमुद्यमं चरन्तम् अञ्जनानन्दनम् उदीक्ष्य विसिस्मिये ॥ भारतीये-आशुकारैः स्वैरम्, जनानन्दनम्, शत्रुजातं दमाननं दमेनाननं कुर्वन्तं भीमं वृकोदरम् ॥ प्रभावितारातनयस्य वीर्य कृताधिपार्थस्य निरूप्य भीताः । दत्तान्तराः पूर्वसरा बभूवुर्विपद्विरुद्धा इव बन्धुवर्गाः ॥ ३५ ॥ प्रभेति ॥ कृताधिपार्थस्य कृतो अधिपस्याओं येन तादृशः, तारातनयस्य अङ्गदस्य प्रभावि वीर्य निरूप्य अवलोक्य भीता बन्धुवर्गाः पूर्वसरा अप्रतः सराः । विपद्विरुद्धा इव । दत्तान्तरा दत्तावसरा बभूवुः ॥ भारतीये--प्रभावितारातनयस्य प्रभावितो निश्चित आरातनयः शत्रुसंबन्धिनीतिर्येन तादृशः । पार्थस्यार्जुनस्य । कृताधि विहिताधि ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy