SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । आस्येषु जिह्वा हृदयेषु हस्तानसेषु शूराः श्रवणान्पृषत्कैः । समस्तभन्पुष्करिणां पिशाचान्स्तम्भेषु कीलैरिव मन्त्रसिद्धाः ॥ २६ ॥ आस्येष्विति ॥ शूराः पृषकैर्बाणैः पुष्करिणां करिणां जिह्वा आस्येषु, हस्ताञ्शुण्डादण्डान् हृदयेषु, श्रवणाञ्ोत्रान् अंसेषु स्कन्धेषु । मन्त्रसिद्धा मन्त्रिणः स्तम्भेषु कीलैः पिशाचान् इव । समस्तभन् ॥ निर्याणभागेष्विषुभिर्विभिन्नास्तैरङ्कुशाकर्षनिबद्धशङ्काः । परावृतन्दूरमिभा न भीताः स्मरन्ति शिक्षा विधुरेऽपि धीराः ॥ २७ ॥ निर्याणेति ॥ तैः शरैर्निर्याणभागेषु गण्डस्थलेषु, इशुभिर्विभिन्ना अङ्कशाकर्षनिबद्धशङ्का अङ्कुशैराकर्षणे निबद्धा शङ्का यस्तादृशः सन्त इभा गजा दूरं यथा स्यात्तथा परावृतन् परावृत्ताः । यतो धीरा अपि भीतास्त्रस्ता विधुरे कष्टे सति शिक्षा न स्मरन्ति ॥ व्यर्छ परानानतपूर्वकायाः स्कन्धान्तयोस्तैर्विनिखातबाणाः । योधाः सतूणद्वितया इवासम्बध्नात्यनर्थोऽपि कुतश्चिदर्थम् ॥ २८ ॥ व्यद्धमिति ॥ पराञ्शत्रून् व्यर्बु ताडयितुम् आनतपूर्वकाया योधा भटाः तैः शत्रुभिः स्कन्धान्तयोविनिखातबाणा विनिखाता विनिहिता बाणा येषां तादृशः सन्तः सतूणद्वितया बाणधिद्वययुता इव आसन् । अनर्थोऽपि कुतश्चिद् अर्थ बध्नाति ॥ तेषां धनुर्मण्डलितं यशो न, द्विषो धरित्र्यामपतन्न बाणाः । पृष्ठे निषङ्गः स्थितवान्न कश्चिन्ननाम देहो हृदयं न नाम ॥ २९ ॥ तेषामिति ॥ मण्डलितं कुटिलितं, नियतदेशवृत्ति । बाणा धरित्र्यां (निष्फलाः) नापतन् । नाम प्रसिद्धौ ॥ ततो यदूनां बलमप्यवस्थां गतं हतं तैः परिवर्तते स्म ।। स्थिरासिकापेयमधिष्ठितानां तद्वारि यादोभिरिवाम्बुधीनाम् ॥ ३० ॥ तत इति ॥ यत् तैः शत्रुभिर्हतं ताडितं सदूनामपि अवस्थां गतं तत् कापेयं कपित्वम् अधिष्ठितानां वानराणां स्थिरासि स्थिरा असयो यत्र तादृक् सत् । यादोभिरम्बधीनां वारीव । परिवर्तते स्म ॥ भारतीये-स्थिरासिकापेयं स्थिरासिका स्थिरमासितुं पर्यायः अपेया परित्याज्या यत्र तत्, अधिष्ठितानां यदूनां तत् बलं कामपि अवस्थां गतम् ॥ तथा हरीणां कलहायमाना सेना मुखं दातुमपारयन्ती । मुधातिसुप्ता बहुवासराणि क्षणं न वेश्येव ययौ न तस्थौ ॥ ३१ ॥ तथेति ॥ हरीणां वानराणां यादवानां वा सेना 'कलहायमाना कलहं कुर्वाणा मुखं दातुम् अपारयन्ती पराङ्मुखीभवन्ती बहुवासराणि मुधा अतिसुप्ता अतिनिद्राणा सुरतासक्ता वेश्येव । क्षणं न ययौ गतवती न तस्थौ स्थितवती ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy