SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १६ सर्गः ] द्विसंधानम् | १६७ तविघातम्, विरचिता धर्मनामकस्य वृक्षस्य (येन धनुःकाण्डं निष्पद्यते इति दमयन्तीव्याख्यायाम्) पीडा यत्र, धर्मेण न्याय्यपथेन पीडा यत्रेति वा । न्याय्येषु मार्गेषु धर्म्यमार्गेषु न्याय्य मार्गणमार्गेषु । सत्यसंधाः सत्यप्रतिज्ञाः अप्रतिहतसंधानाः । सुधियः पण्डिता दक्षाः । यो यादृशो भवति, तस्य कर्मापि तादृग् ॥ उत्कर्ण्य मौर्वीनिनदं नृपाणां तनूलता कण्टकितानुरागात् । उत्सेकतो वीररसैकसारादभूद्विरूदेव समं रिपूणाम् ॥ २० ॥ उत्कर्णेति ॥ उत्सेको गर्व उत्सेचनं च ॥ ज्याचक्ररुद्धं स्थितमङ्गमेव रवेरिवोच्चैः परिवेषभाजः । तेजो जगद्व्याप तु राजकस्य रोद्धुं परं ज्योतिरहो न शक्यम् ॥ २१ ॥ ज्याचक्रेति ॥ राजकस्य अङ्गमेव ज्याचक्ररुद्धं सत् स्थितम्, तेजस्तु परिवेषभाजो रवेरिव उच्चैरत्यर्थे जगद् व्याप । अहो परं ज्योती रोद्धुं न शक्यम् ॥ घाताय कर्तुं द्विषतां प्रवीरैः शरोऽप्रमुक्तान्मनसो रथाच्च । प्रागभ्यमित्रोऽजनि पश्चिमोऽपि पश्चान्न शीघ्रः प्रथमोऽपि मन्दः ॥२२॥ घातायेति ॥ द्विषतां घाताय कर्तु घातं कर्तुम् । विभक्तिप्रतिरूपकम् । प्रवीरैर्भटैः, अग्रमुक्तात्पूर्वमुक्तात् मनसः, रथाच्च प्राग् शरोऽभ्यमित्रः शत्रुसंमुखोऽजनि । पश्चिमोऽपि शीघ्रः पश्चात् न अजनि । प्रथमोऽपि मन्दः शीघ्रो न ॥ अन्योन्यमुत्पीडयतोः सखीव ज्याधन्वनोर्मध्यमनुप्रविश्य । निवारयन्तीव युगं विदूरं तदायतेषुः पृथगाचकर्ष ॥ २३ ॥ अन्योन्यमिति ॥ आयता दीर्घा इषुरन्योन्यं परस्परमुत्पीड्यतोः, ज्याधन्वनोर्मौर्वीचापयोः, मध्यम् अनुप्रविश्य युगं युद्धं विदूरतरं यथा स्यात्तथा निवारयन्ती इव, तद् द्वितयं पृथगाचकर्ष ॥ परस्परं वेगितमाप्नुवन्तो न पेतुरुद्भिद्य शरा हयाश्च । तेऽन्योन्यसेनामुभयेऽप्यनाप्य स्वं श्लाघमाना इव तीक्ष्णभावम् ॥ २४ ॥ परस्परमिति ॥ ते उभयेऽपि शरा हयाश्च परस्परमन्योन्यं वेगितम् उद्भिद्य वेगितम् आनुवन्तः सन्तः स्वं तीक्ष्णभावं श्लाघमाना इव अन्योन्यसेनाम् अनाप्य अप्राप्य न पेतुः ॥ इयत्तया वक्तुमहं न शक्तः स्यदानिषूणां युधि ये गिरिभ्यः । स्थवीयसोऽप्याशु विभिद्य नागान्निबद्ध कोपा इव रक्तरक्ताः ॥ २५ ॥ इयत्तयेति ॥ ये गिरिभ्यः स्थवीयसः स्थूलतरान् अपि नागान्गजान् आशु विभिद्य निबद्धकोपा रक्तरक्ता रुधिरलोहिता रुधिरासक्ताश्च इव भवन्ति । तेषाम् इषूणां स्यदान् इयत्तया वक्तुम् अहं न शक्तः ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy