Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 185
________________ १७ सर्गः] द्विसंधानम् । १८१ रूपा अशक्ता, कुपितं हेतिरूपतां शस्त्ररूपतां वह्निज्वालारूपतां वा यातमिव निशितशस्त्रं ज्वलनात्मतां गतम् इव, अभूत् ॥ स रुषायुधं विषमिवाहिरशनिमिव तोयदोऽसृजत् । क्षौद्रपटलपतितैरिव तच्छरयैः शिरस्त्रनिवहैर्मही बभौ ॥ ५ ॥ स इति ॥ स रुषा क्रोधेन आयुधं शस्त्रजातम् | अहिः सर्पो विषमिव तोयदो अशनिमिव, असृजत् । तत्तस्मात् मही शिरस्त्रनिवहैः क्षौद्रपटलपतितैर्मधुच्छत्रच्युतैः शरघैर्मधुमक्षिकाभिरिव, बभौ ॥ दहनास्त्रपाणिरपमूर्धं विदधदरिसैन्यमाजनुः । वेद न भयरसमित्यशिरः पुरतः स दिव्यमधूतेव नाकिनाम् ॥ ६ ॥ दहनेति ॥ स दहनानपाणि: सन्, अपमूर्धमपगतमस्तकम् अरिसैन्यं विदधत् सन् आजनुराजन्म भयरसम् न वेद वेद्मि इति अशिरः न शिरः प्रधानं यस्मात्तादृशं दिव्यं दिवि भवं स्वशरीरं नाकिनां पुरतः अधृत इव ॥ अनुजं तु मृत्युमिव हन्तुममुमभिजिहानमारुधत् । तीत्रमन्धतमसमभ्युदयै रथवाहनेन सवितेव केशवः ॥ ७ ॥ अनुजमिति ॥ केशवो लक्ष्मणस्तीत्रं सोढुमशक्यम्, हन्तुमिवाभ्युदयैर्गजवाज्यादिलक्षणविभूतिभिरभिजिहानं संमुखमायान्तं मृत्युमिव अमुं रावणं तु पुनरनुजं कुम्भकर्ण रथवाहनेन रथाश्वेन । सविता सूर्योऽभ्युदयैः किरणसंदोहलक्षणविभूतिभी रथवाहनेनान्धतमसमिव, आरुधत् ॥ भारतीये – केशवो नारायणः । अमुं जरासंधम् ॥ चिरमेष चेतसि निरुद्धमुदितमिव मन्त्रमग्रतः । प्रेतपतितनृपकोपचयं निचितं पुनः परिभवादिवैक्षत ॥ ८ ॥ चिरमिति ॥ एष नारायणः पुनश्चेतसि चिरं निरुद्धं मन्त्रमिव अप्रत उदितमरिं परिभवात् निचितं संभृतं प्रेतपतितनृपकोपचयं प्रेतानां पतितानां नृपाणां कोपस्य चयमिव । ऐक्षत ॥ प्रियसंगमात्प्रथमसङ्गमरिकृतमबोधि सोऽधिकम् । वृन्दमलघु सुहृदो महतां द्विषता हि कीर्तिरतुला तु जायते ॥ ९ ॥ प्रियेति ॥ सोऽरिकृतं प्रथमसङ्गं प्रियसंगमादधिकमबोधि । हि यतो महतां सत्पुरुषाणां सुहृदो मित्रयं वृन्दम् अलघु भवति, तथापि द्विषता कीर्तिरतुला जायते ॥ निजपौरुषं हि पुरुषस्य कवचमिह कस्य संवृतिः । भानुमत इव न हन्ति रुचि घनदेहबन्धनमयीति नामवीत् ॥ १० ॥ निजेति ॥ निजपौरुषमेव पुरुषस्य कवचं स्यात् । घनदेहबन्धनमयी अत्यन्तशरीरब

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230