Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press
View full book text
________________
१७ सर्गः]
द्विसंधानम् ।
१८५
गच्छतः, क्षतजप्रवाहनिवहस्य रक्तपूरसमूहस्य द्युतलानि गमनतलानि अधिरूढं रागपटलम् इव' बभौ शोभितम् ॥
अथ वारुणीरुचिरभाजि न परममुनाम्बरस्थितिः । क्वापि रविरवपतन्भविता तदितीव तद्गतमगामि संध्यया ॥ २८ ॥
अथेति ॥ अथ संध्याप्रवेशानन्तरम् अमुना रविणा वारुणीरुचिः पश्चिमाशादीप्तिः परं केवलं न अभाजि सेविता । अम्बरस्थितिर्गगनस्थितिः । तथा रविः क्वापि अवपतन् भविता । अत्र लुप्तोपमा । यथा मद्यपेन वारुणीरुचिर्मदिराभिलाषः न अभाजि भग्ना । तथा अम्बरस्थितिर्वस्त्रस्थितिरभाजि भन्मा । तथा क्वापि अवपतन भविता इति हेतोः । ननदनन्तरं संध्यया तद्गतं सूर्यगमनम् अगामि इव ॥
परतस्तमांसि पुरतोऽस्य सवितुरभवन्महोद्यमः। दिग्विजयमधिकरोति किमु क्षुभितं हि पश्चिममचिन्तयन्प्रभुः ॥२९॥ परत इति ॥ अस्य सवितु: पुरतोऽग्रे महोद्यमोऽभवत् । परतः पश्चात् तमांसि अभवन् । युक्तमेतत् । हि यतः-उ अहो क्षुभितं पश्चिमम् अचिन्तयन् अवितर्कयन् प्रभुदिग्विजयम् अधिकरोति किम् । अपि तु न ।
उपवन्यभूम्युपगिरं च दिवसमुपलाय वाहयत् । प्राप तिमिरमुरुमभ्युदयं किल कं न यापयति दुर्गयापना ॥ ३० ॥ उपेति ॥ तिमिरं तम उपवन्यभूमि कान्तारसमीपम् उपगिरं गिरिसमीपम् उपलाय लीनो भूत्वा दिवसं दिनं वाहयत् अतिलवमानं सत् उरुं गरिष्टम् अभ्युदयं प्राप । किल दुर्गयापना दुर्गमनिका कं न यापयति अतिक्रामति ॥
द्युमणौ प्रतापिनि गतेऽस्तमभयचिरसंगमात्तमः। श्लिष्यदिव घनमशेषमभूत्प्रलयः प्रियो हि खरदण्डतोषिणः ॥ ३१ ॥
युमणाविति ॥ प्रतापिनि घुमणौ सूर्येऽस्तंगते सति घनं तमोऽशेष श्लिष्यद् आलिङ्गदिवाभूत् । हि यतः खरदण्डतोषिणस्तीव्रदण्डतोषिणः कमलतोषिणः प्रलयः प्रियो भवति । तीव्रदण्डत्वात् ॥ निजदुःसुतं कुलमिवाशु गुरुगृहमिवायथोद्यतम् ।
राज्यमिव समुदितव्यसनं भुवनं परास्तमवबद्धतामसम् ॥ ३२ ॥ निजेति ॥ अवबद्धतामसं स्वीकृततमोविकारं भुवनं जगद् आशु शीघ्रं निजदुःसुतं निजो दुष्टः सुतो यत्र तत् कुलम् इव, अयथोद्यतमसदाचारं गुरुगृहम् इव, समुदितव्यसनं संप्राप्तदुःखं राज्यम् इव परास्तं प्रक्षिप्तम् ॥
कृतमुच्छ्रितं तदनुदात्तमधरतरमुच्चमाहतम् । क्वाप्यजनि न च विवेकमतिः कुनृपैकचेष्टितमिवाभवत्तमः ॥ ३३ ॥
२४

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230