Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 191
________________ १७ सर्गः] द्विसंधानम् । १८७ उद्यतः, असहोऽसहिष्णुरिव कः सोऽकनिष्ठो महान् स्वयम् अस्तम् एति ॥ भारतीयेतत्र भुवि कोकनिष्ठश्चक्रवाकतत्परः, सहजपरिपीडनो निसर्गपरिपीडकः, तपनपरितापगुणः सूर्यस्य सर्वजगद्यापी तापगुणः अभवत् । स स्वयं एवं कं विनाशं नेष्यामीत्यङ्गीकारे उद्यतः अस्तमसह एति ॥ विनिवार्य तं निजकरेण निशि गुरुतमोऽभिमातुलम् । प्राप विधुरपटुरभ्युदयं महसाञ्जनोऽस्य स तुतोष सङ्गतः ॥ ३९ ॥ विनिवेति ॥ गुरुतमो गरिष्ठो विधुरपटुर्दुःखस्फोटनदक्ष आञ्जनो हनुमान् निजकरण स्वहस्तेन तं भरतं विनिवार्य संबोध्य अभिमातुलं मातुलं द्रोणाचलं अभिलक्ष्य निशि महसा तेजसा अभ्युदयं प्राप । स द्रोणश्च अस्य सङ्गत आञ्जनेयसङ्गात् तुतोष ॥ भारतीये-अपटुरपूर्णः विधुश्चन्द्रः अभिमा परिच्छेदकेन ('आतो धातोः' इत्याकारलोपः)निजकरेण स्वीयकिरणेन गुरु गरिष्ठं तमोऽन्धकारं विनिवार्य तं महसां तेजसाम् अभ्युदयम् प्राप । स जनः, अस्य चन्द्रस्य सङ्गतः सङ्गात् तुतोष ॥ स वामङ्क्षद्रोणोरुचितमुदयात्संमुखगते ___ विधौ रागोद्रेकं धृतवति तमोथैकनिलयः । कथंचिच्चित्तस्य स्थितिमिव विशल्यां प्रहितवा विहातुं शक्यात्मप्रकृतिरनुबद्धा नहि सुखम् ॥ ४० ॥ ___ स इति ॥ ओधैकनिलयो जलरयैकस्थानं स द्रोणः, उदयात् संमुखगते विधौ दैवे रुचितं शोभितं तं रागोद्रेकं धृतवति सति, विशल्यां सुन्दरी चित्तस्य स्थितिम् इव, मङ्गु शीघ्रं वा एव प्रहितवान् ॥ भारतीये-अधैकनिलयः पापैकमन्दिरम् स क्षुद्रस्तस्करजनोऽणोः स्वल्पात् उदयात् उचितं योग्यं वामं प्रतिकूलं धृतवति विधौ चन्द्रे समुखगते सति चित्तस्य विशल्यां शङ्ककर्मरहितां स्थिति तम इव प्रहितवान् । युक्तमेतत् हि यतः अनुबद्धा आत्मप्रकृतिः सुखं यथा स्यात्तथा विहातुं न शक्या ॥ शिखरिणी ॥ विधुतोऽभ्युदितो दिगन्तरं परितस्ताररुचा तया ततः । निशि शक्त्युदयः पराद्युतिः कियती नाम न हन्त्युपप्लवम् ॥ ४१ ॥ विधुत इति ॥ ततोऽनन्तरं परितः सामस्त्येन ताररुचा शुभ्रदीप्त्या तया विशल्यया विधुतो निराकृतः शत्तयुदयः शक्तेरायुधविशेषस्योदयः निशि तस्यामेव दिगन्तरमाशान्तरालमभ्युदितः लक्ष्मणं त्यक्त्वा गतवान् । युक्तमेतत् । कियती परोत्कृष्टा द्युतिः कान्तिरुपप्लवमन्धतमसं न हन्ति ॥ भारतीये-ततस्तस्माल्लोकोत्तरादू विधुतश्चन्द्रादभ्युदितः समुत्पन्नः शक्त्युदयः सामोदयस्तया लोकोत्तरया रुचा कान्त्या निशि रात्रौ दिगन्तरं परितस्तार प्रच्छादितवान् ॥ वैतालीयं छन्दः ॥

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230