Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 194
________________ १९० काव्यमाला । परं न दृष्ट्वाक्रममाणमिन्दं प्रपूरयामास पयोधिराशाः । लावण्यधामा च्युतमानसीमा रागोऽप्यसंमान्हृदये जनस्य ॥ १३ ॥ परमिति ॥ लावण्यधामा क्षाररसाश्रयः शरीरकान्तिविशेषाश्रयो वा । च्युतमानसीमा पयोधिः समुद्रः परं केवलम् आक्रममाणमुदयमानम्, इन्दुम् दृष्ट्वा आशा दिशो न प्रपूरयामास । किं तु जनस्य हृदये असंमान् रागोऽपि आशा वाञ्छाः प्रपूरयामास ॥ उपजातिः ॥ श्रवणाञ्जलिनेक्षणेन शुक्त्या प्रियवार्ता विधुमासवं पिबन्त्यः । मधुरत्रयसेवयेव जाता हृदि वध्वः समधातवश्चिरेण ॥ ५४ ॥ श्रवणेति ॥ वध्वः प्रियवार्ता श्रवणाञ्जलिना, विधुम् ईक्षणेन लोचनेन, आसवं मद्य शुक्त्या चषकेण पिबन्त्यः सत्यो हृदि हृदये मधुरत्रयसेवया इव समधातवः चिरेण जाताः॥ औपच्छन्दसिकम् ॥ रत्नाजिनेष्वाजिभरावशेषाद्विषादवद्वाष्पजलाविलानि । स्त्रैणं समुच्छ्वासतरङ्गितानि सीधूनि योधाः समपाययन्त ॥ ५५ ॥ रत्नेति ॥ योधाः भटाः (प्रयोजककर्तारः) आजिभरावशेषात् विषादवत् स्त्रैणं स्त्रीकदम्बम् (प्रयोज्यकर्टकर्म) बाष्पजलाविलानि अश्रुजलमिश्राणि, समुच्छासतरङ्गितानि समु. च्छासेन तरङ्गितानि सीधूनि मद्यानि (कर्माणि) समपाययन्त ॥ उपजातिः ॥ उत्पलस्य शशिनोऽप्यवतारात्सौरभं हरतु कान्तिगुणं च । व स्वयं व मदनः किल येन प्राप मोहनविधि मधुवारः ॥ १६ ॥ उत्पलेति ॥ मधुवारो मदिरा उत्पलस्य कमलस्य सौरभं परिमलं, शशिनश्चन्द्रस्य कान्तिगुणं च, (शशिकमलयोः) अवतारात् हरतु । स्वयं मधुवारः क्व वर्तते मदनः क्व वर्तते । येन मदनेन मधुवारः मोहनविधि प्राप । किल लोकोक्तौ ॥ स्वागता ॥ इन्दोः प्रियस्यापि कराग्रपातैर्मदस्य चित्तस्य तथाभावैः । पूर्वापराधस्मृतयो विनेशुर्जन्मापरं जातमिवाबलानाम् ॥ १७ ॥ इन्दोरिति ॥ अबलानां कामिनीनाम् इन्दोश्चन्द्रस्य तथा प्रियस्य वल्लभस्य कराप्रपात किरणपातै खपातैश्च मदस्य तथा चित्तस्य आर्द्रभावैवस्वरूपैः सहृदयभावैश्च । पूर्वापराधस्मृतयो विनेशुः । तथा च अपरमन्यमिव जन्म जातम् ॥ उपजातिः ॥ प्रतिमितविधुबिम्बसीधुपानादिव वदनं विशदारुणं वधूनाम् । श्रमजललुलितभ्रु कोपशङ्कानतशिरसः किल कामिनश्चकार ॥ १८ ॥ प्रतिमीति ॥ प्रतिमितविधुबिम्बसीधुपानात् प्रतिबिम्बितचन्द्रबिम्बात्सीधुपानात् (यक्रिमेण) विशदारुणं विशदम् अरुणम्, श्रमजललुलितभ्र स्वेदजलकलुषितभ्र वधूनां

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230