________________
१९०
काव्यमाला ।
परं न दृष्ट्वाक्रममाणमिन्दं प्रपूरयामास पयोधिराशाः । लावण्यधामा च्युतमानसीमा रागोऽप्यसंमान्हृदये जनस्य ॥ १३ ॥ परमिति ॥ लावण्यधामा क्षाररसाश्रयः शरीरकान्तिविशेषाश्रयो वा । च्युतमानसीमा पयोधिः समुद्रः परं केवलम् आक्रममाणमुदयमानम्, इन्दुम् दृष्ट्वा आशा दिशो न प्रपूरयामास । किं तु जनस्य हृदये असंमान् रागोऽपि आशा वाञ्छाः प्रपूरयामास ॥ उपजातिः ॥
श्रवणाञ्जलिनेक्षणेन शुक्त्या प्रियवार्ता विधुमासवं पिबन्त्यः । मधुरत्रयसेवयेव जाता हृदि वध्वः समधातवश्चिरेण ॥ ५४ ॥ श्रवणेति ॥ वध्वः प्रियवार्ता श्रवणाञ्जलिना, विधुम् ईक्षणेन लोचनेन, आसवं मद्य शुक्त्या चषकेण पिबन्त्यः सत्यो हृदि हृदये मधुरत्रयसेवया इव समधातवः चिरेण जाताः॥ औपच्छन्दसिकम् ॥ रत्नाजिनेष्वाजिभरावशेषाद्विषादवद्वाष्पजलाविलानि । स्त्रैणं समुच्छ्वासतरङ्गितानि सीधूनि योधाः समपाययन्त ॥ ५५ ॥ रत्नेति ॥ योधाः भटाः (प्रयोजककर्तारः) आजिभरावशेषात् विषादवत् स्त्रैणं स्त्रीकदम्बम् (प्रयोज्यकर्टकर्म) बाष्पजलाविलानि अश्रुजलमिश्राणि, समुच्छासतरङ्गितानि समु. च्छासेन तरङ्गितानि सीधूनि मद्यानि (कर्माणि) समपाययन्त ॥ उपजातिः ॥
उत्पलस्य शशिनोऽप्यवतारात्सौरभं हरतु कान्तिगुणं च । व स्वयं व मदनः किल येन प्राप मोहनविधि मधुवारः ॥ १६ ॥ उत्पलेति ॥ मधुवारो मदिरा उत्पलस्य कमलस्य सौरभं परिमलं, शशिनश्चन्द्रस्य कान्तिगुणं च, (शशिकमलयोः) अवतारात् हरतु । स्वयं मधुवारः क्व वर्तते मदनः क्व वर्तते । येन मदनेन मधुवारः मोहनविधि प्राप । किल लोकोक्तौ ॥ स्वागता ॥
इन्दोः प्रियस्यापि कराग्रपातैर्मदस्य चित्तस्य तथाभावैः । पूर्वापराधस्मृतयो विनेशुर्जन्मापरं जातमिवाबलानाम् ॥ १७ ॥ इन्दोरिति ॥ अबलानां कामिनीनाम् इन्दोश्चन्द्रस्य तथा प्रियस्य वल्लभस्य कराप्रपात किरणपातै खपातैश्च मदस्य तथा चित्तस्य आर्द्रभावैवस्वरूपैः सहृदयभावैश्च । पूर्वापराधस्मृतयो विनेशुः । तथा च अपरमन्यमिव जन्म जातम् ॥ उपजातिः ॥
प्रतिमितविधुबिम्बसीधुपानादिव वदनं विशदारुणं वधूनाम् । श्रमजललुलितभ्रु कोपशङ्कानतशिरसः किल कामिनश्चकार ॥ १८ ॥ प्रतिमीति ॥ प्रतिमितविधुबिम्बसीधुपानात् प्रतिबिम्बितचन्द्रबिम्बात्सीधुपानात् (यक्रिमेण) विशदारुणं विशदम् अरुणम्, श्रमजललुलितभ्र स्वेदजलकलुषितभ्र वधूनां