________________
१७ सर्गः]
द्विसंधानम् ।
१८९
चन्द्रो वातः शीतकं चन्दनं च क्षोदेष्वासीदुष्णकं कामुकानाम् । निर्द्वन्द्वं वा चन्द्रमश्छद्मनाभूदेकच्छत्रं प्राभवं मन्मथस्य ॥ ४७ ॥ चन्द्र इति ॥ कामुकानां कामिनां क्षोदेषु कामजनितपीडासु सतीषु चन्द्रो वातः शीतकं चन्दनं च उष्णकम् आसीत् । वा अथवा चन्द्रमश्छद्मना चन्द्रव्याजेन एकच्छत्रं निर्द्वन्द्वं मन्मथस्य प्राभवं प्रभुत्वम् अभूत् ॥ शालिनी ॥
माधवेन मधुना स्मरेण वा को मयेव महते च तोषितः ।
इत्यहंयुरवशः स्फुटन्नित्र स्वल्पतारकगणः शशी बभौ ॥ ४८ ॥
माघवेनेति ॥ मत् मत्त ऋते विना केन माधवेन वसन्तेन मधुना मद्येन स्मरेण कंदपेण मया इव कस्तोषितः । अपि तु न । इत्येवं प्रकारेण अहंयुर्गर्विष्ठोऽवशः स्वाधीनः शशी स्फुटन्निव विकसन्निव स्वल्पतारकगणः सन् बभौ ॥ रथोद्धता ॥ .
न विधुः स्मरशस्त्रशाणबन्धः स्वयमेष स्फुरिताश्च ता न ताराः । मदनास्त्रनिशानवह्निशल्कप्रचयेोऽसाविति मानिभिश्चकम्पे ॥ ४९ ॥
नैति ॥ मानिभिः कामुकैः 'एष विधुर्न, किंतु स्वयं स्मरशस्त्रशाणबन्धः स्मरस्य कंद - स्य शस्त्राणां शापबन्धः, ता इमाश्च स्फुरिताः तारा न किंतु असौ मदनास्त्रनिशानवह्निशल्कनिचयः मदनास्त्राणां निशानेन वह्निशल्कानां प्रचयोऽस्ति' इति हेतोश्चकम्पे ॥ औपच्छन्दसिकंवृत्तम् ॥
आत्मपादशरणं कुमुदौघं भानुतापितमवेत्य सवैरम् ।
हन्तुमभ्यधिकमिच्छुरिवेन्दुश्चक्रवाकमतपत्कमलं च ॥ १० ॥
आत्मेति ॥ इन्दुश्चन्द्रः आत्मपादशरणं स्वशरणागतं कुमुदौघं कैरवनिकरं भानुतापितम् अवेत्य सवैरम् अभ्यधिकं हन्तुम् इच्छुरिव कमलं चक्रवाकं च अतपत् पीडितवान् || स्वागतावृत्तम् ॥
क्षीरधिप्लवकृतोद्गमैरिव प्लावितेंऽशुभिरतिग्मदीधितिः ।
व्योम्नि मज्जनभयेन शङ्कितः संचरन्निव गतेन लक्षितः ॥ ५१ ॥
क्षीरेति ॥ अतिग्मदीधितिश्चन्द्रः क्षीरधिप्लवकृतोद्गमैः समुद्रपूरविहितोत्पत्तिभिरंशुभिः किरणैः प्लाविते प्रलोडिते, व्योम्नि गगने मज्जनभयेन शङ्कित इव गतेन संचरन् लक्षितः (जनैः) ॥ रथोद्धता ॥
भोगसागर परिक्रमचौरान्रागिणो जलपथे कृतकृत्यान् । अध्यरोहदिव जेतुमुदस्त्रश्चन्द्रमण्डलतरण्डमनङ्गः ॥ ५२ ॥
भोगेति ॥ अनङ्गः कंदर्पो भोगसागर परिक्रमचौरान् भोगसमुद्रमार्गतस्करान् जलपथे जलमार्गे जडमार्गे कृतकृत्यान् रागिणः कामुकान् जेतुम् उदस्त्र उत्खातशस्त्रः सन् चन्द्रमण्डलतरण्डं चन्द्रमण्डलमेव तरण्डं लघुनौकाविशेषम् अध्यरोहत् इव ॥ स्वागता ॥