Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 193
________________ १७ सर्गः] द्विसंधानम् । १८९ चन्द्रो वातः शीतकं चन्दनं च क्षोदेष्वासीदुष्णकं कामुकानाम् । निर्द्वन्द्वं वा चन्द्रमश्छद्मनाभूदेकच्छत्रं प्राभवं मन्मथस्य ॥ ४७ ॥ चन्द्र इति ॥ कामुकानां कामिनां क्षोदेषु कामजनितपीडासु सतीषु चन्द्रो वातः शीतकं चन्दनं च उष्णकम् आसीत् । वा अथवा चन्द्रमश्छद्मना चन्द्रव्याजेन एकच्छत्रं निर्द्वन्द्वं मन्मथस्य प्राभवं प्रभुत्वम् अभूत् ॥ शालिनी ॥ माधवेन मधुना स्मरेण वा को मयेव महते च तोषितः । इत्यहंयुरवशः स्फुटन्नित्र स्वल्पतारकगणः शशी बभौ ॥ ४८ ॥ माघवेनेति ॥ मत् मत्त ऋते विना केन माधवेन वसन्तेन मधुना मद्येन स्मरेण कंदपेण मया इव कस्तोषितः । अपि तु न । इत्येवं प्रकारेण अहंयुर्गर्विष्ठोऽवशः स्वाधीनः शशी स्फुटन्निव विकसन्निव स्वल्पतारकगणः सन् बभौ ॥ रथोद्धता ॥ . न विधुः स्मरशस्त्रशाणबन्धः स्वयमेष स्फुरिताश्च ता न ताराः । मदनास्त्रनिशानवह्निशल्कप्रचयेोऽसाविति मानिभिश्चकम्पे ॥ ४९ ॥ नैति ॥ मानिभिः कामुकैः 'एष विधुर्न, किंतु स्वयं स्मरशस्त्रशाणबन्धः स्मरस्य कंद - स्य शस्त्राणां शापबन्धः, ता इमाश्च स्फुरिताः तारा न किंतु असौ मदनास्त्रनिशानवह्निशल्कनिचयः मदनास्त्राणां निशानेन वह्निशल्कानां प्रचयोऽस्ति' इति हेतोश्चकम्पे ॥ औपच्छन्दसिकंवृत्तम् ॥ आत्मपादशरणं कुमुदौघं भानुतापितमवेत्य सवैरम् । हन्तुमभ्यधिकमिच्छुरिवेन्दुश्चक्रवाकमतपत्कमलं च ॥ १० ॥ आत्मेति ॥ इन्दुश्चन्द्रः आत्मपादशरणं स्वशरणागतं कुमुदौघं कैरवनिकरं भानुतापितम् अवेत्य सवैरम् अभ्यधिकं हन्तुम् इच्छुरिव कमलं चक्रवाकं च अतपत् पीडितवान् || स्वागतावृत्तम् ॥ क्षीरधिप्लवकृतोद्गमैरिव प्लावितेंऽशुभिरतिग्मदीधितिः । व्योम्नि मज्जनभयेन शङ्कितः संचरन्निव गतेन लक्षितः ॥ ५१ ॥ क्षीरेति ॥ अतिग्मदीधितिश्चन्द्रः क्षीरधिप्लवकृतोद्गमैः समुद्रपूरविहितोत्पत्तिभिरंशुभिः किरणैः प्लाविते प्रलोडिते, व्योम्नि गगने मज्जनभयेन शङ्कित इव गतेन संचरन् लक्षितः (जनैः) ॥ रथोद्धता ॥ भोगसागर परिक्रमचौरान्रागिणो जलपथे कृतकृत्यान् । अध्यरोहदिव जेतुमुदस्त्रश्चन्द्रमण्डलतरण्डमनङ्गः ॥ ५२ ॥ भोगेति ॥ अनङ्गः कंदर्पो भोगसागर परिक्रमचौरान् भोगसमुद्रमार्गतस्करान् जलपथे जलमार्गे जडमार्गे कृतकृत्यान् रागिणः कामुकान् जेतुम् उदस्त्र उत्खातशस्त्रः सन् चन्द्रमण्डलतरण्डं चन्द्रमण्डलमेव तरण्डं लघुनौकाविशेषम् अध्यरोहत् इव ॥ स्वागता ॥

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230