Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 195
________________ १७ सर्गः] द्विसंधानम् । ____ १९१ वदनं कामिनः कोपशङ्कानतशिरसः कोपभ्रान्तिनम्रमस्तकान् चकार किल ॥ पुष्पि-- ताग्रा वृत्तम् ॥ स्वच्छवृत्ति रसिकं मृदु चाट्टै तत्तथापि मधु मानवतीनाम् । रूपयौवनमदस्य विकारैर्मत्तमत्तमिव विप्रललाप ॥ १९ ॥ स्वच्छति ॥ यद्यपि मधु स्वच्छवृत्ति रसिकं रसवत्, मृदु शरीरमार्दवविधायित्वात्, आई द्रवरूपम् । तथापि मानवतीनां मानिनीनां रूपयौवनमदस्य विकारैर्मत्तमत्तम् इव विप्रललाप विप्रलपितवानू ॥ स्वागता ॥ मानो व्यतीतः कलहं व्यपेतं गतानि गोत्रस्खलितच्छलानि । गुरून्प्रहारान्मधु संदधीत क्षतं पुनः कामिषु तत्कियद्वा ॥ ६ ॥ मानेति ॥ मानो व्यतीतः, कलहं व्यपेतम्, गोत्रस्खलितच्छलानि गतानि, तथापि मधु गुरून् प्रहारानू संदधीत संदध्यात् तत्क्षतं नखक्षतं पुनः कामिषु कियद् ॥ उपजातिः॥ परिपीडितमुक्तमङ्गनायाः परिरम्भेषु चिरादिव प्रियेण । हृदयोच्छसितोष्मणा सहैव प्रतिसर्पत्कुचयुग्ममुन्ममज ॥ ६१ ॥ परीति ॥ प्रियेण परिरम्भेष्वालिङ्गनेषु परिपीडितमुक्तं पूर्व परिपीडितं पश्चान्मुक्तम्, अङ्गनायाः कल्याणाङ्गयाः कुचयुग्मं हृदयोच्छ्रसितोष्मणा सहैव प्रतिसर्पद् इव चिरात् चिरकालेन उन्ममज्ज उन्नमितम् ॥ औपच्छन्दसिकम् ॥ निरुत्तरां कर्तुमनिस्त दोषी योषामुपालिप्सुरनेकमागः । वाकर्मणोरन्यतरस्य मोहमन्यस्य रक्षत्यथवावबोधः ॥ १२ ॥ निरुत्तेति ॥ अनेकम् आगोऽपराधम् उपालिप्सुः प्रोञ्छितुमिच्छुर्दोषी (वल्लभः) योषां निरुत्तरां कर्तुम् अनिस्त चुम्बितवान् , अथवा अन्यस्य अवबोधो वाकर्मणोरन्यतरस्य मोहं रक्षति ॥ उपजातिः ॥ मध्यस्थितं मण्डलधर्मबद्धं मित्रं जिगीष्वोरिव पीड्यमानम् । संदेहभावि स्तनचक्रमासीत्साधारणं तत्प्रिययोर्मुहूर्तम् ॥ ६३ ॥ मध्येति ॥ प्रिययोर्वल्लभयोः तत् स्तनचक्रं 'जिगीष्वोर्मित्रम् इव' मध्यस्थितमन्तरालगतम्, मण्डलधर्मबद्धं चक्रवालधर्मबद्धम्, देशधर्मबद्धम् । पीड्यमानं सत् मुहूर्त क्षणं साधारणं संदेहभावि आसीत् ॥ आलिङ्गय गाढं मधुरं ध्वनन्ती मुखे मुखं न्यस्य वधूः प्रियस्य । विस्मृत्य कर्णान्तरमुन्मदत्वादास्ये जपन्तीव बभौ रहस्यम् ॥ १४ ॥ आलिङ्गयेति ॥ वधूर्गाढम् आलिङ्गय मधुरं ध्वनन्ती सती उन्मदत्वात् कर्णान्तरं श्रीत्रमध्यं विस्मृत्य प्रियस्य मुखे मुखं न्यस्य आस्ये मुखे रहस्यं जपन्ती इव बभौ ॥

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230