Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 192
________________ १८८ काव्यमाला। परिमोहयमाणमाशयं व्यसनाम्भोधिमिवोत्तरंस्तमः । सुखरोचिरतः सलक्ष्मणः क्षणमुल्लाघ इवोदतिष्ठत ॥ ४२ ॥ परीति ॥ सुखरो दृढप्रहारी, स लक्ष्मणः सौमित्रि: आशयं चेतः परिमोहयमाणं व्यसनाम्भोधि व्यसनसागरमिव तमः अन्धकारमज्ञानम् उत्तरन् सन् अचिरतः शीघ्रमेव क्षणं मुहूर्तात् 'उल्लाघो निरामय इव उदतिष्ठत् उत्तिष्ठते स्म ॥ भारतीये-अतोऽनन्तरम् सलक्ष्मणः सलाञ्छनः सुखरोचिश्चन्द्रः, तमोऽन्धकारम् ॥ निजपूर्वया रुचिरपाण्डुरुचा परमाशयौषधिपतिवरया । तमवाप्य कान्तमधिकं रुरुचे न महस्विसंगतिषु कस्य रुचिः ॥ ४३ ।। __निजेति ॥ निजपूर्वया निजपूर्वोपार्जितया रुचिरपाण्डुरुचा मनोहरविषदकान्त्या परमाशयोत्कृष्टवाञ्छयौषधिपतिंवरया विशल्याख्यौषधिरूपकन्यया तं कान्तम् अवाप्य प्राप्य अधिकं रुरुचे । महस्विसंगतिषु कस्य न रुचिः ॥ भारतीये-वरयोत्कृष्टया आशया दिशया परमुत्कृष्टम्, ओषधिपतिं चन्द्रम् ॥ प्रमिताक्षरा ॥ स हरिन्नवोदयमुदीक्ष्य जनश्चिरचन्द्रहासभयविह्वलितः । निजकृत्यनिर्वहणभारमितः समुदश्वसीन्निशि कवोष्णमसौ ॥ ४४ ॥ स इति ॥ चिरचन्द्रहासभय विह्वलः चिरश्चिरमाचक्षाणश्चन्द्रहासः खड्गो यस्य तस्माद्रावणाद्भयेन विह्वलः, असौ स जनो नवोदयं नवोत्थितं हरिं लक्ष्मणम् उदीक्ष्य प्रेक्ष्य निजकृत्यनिर्वहणभारमात्मकार्यनिर्वाहभारम्, इतो गतः, निशि कवोष्णं यथा तथा समुदश्वसीत् ॥ भारतीये-चिरचन्द्रहासभयविह्वलश्चिरमाचक्षाणचन्द्रज्योत्स्नाभयविह्वलो हरिन्नवोदयं हरित्सु दिक्षु नव उदयो यस्य तं प्रकरणाच्चन्द्रम् ॥ दारुण्यमात्मन्यनुशय्य तीवं स्वतापतप्तां दयया धरित्रीम् । निर्वृत्य निर्वापयितुं हिमांशुव्याजेन शीतोऽभ्युदयादिवार्कः ॥ ४५ ॥ दारुण्यति ॥ अर्कस्तीव्रमसह्यं दारुण्यमात्मनि अनुशय्य पश्चात्तापविषयीकृत्य, स्वतापतप्तां धरित्री दयया निवृत्य व्याघुट्य निर्वापयितुं सुखयितुं शीतीकर्तुं हिमांशुव्याजेन च. न्द्रस्वरूपेण शीतः शीतल: अभ्युदयादभ्युद्गतवान् इव ॥ उपजातिः ॥ शनैः समारुह्य नभोऽनुरागं जहौ शशी लोकहितोद्यतोऽपि । प्रायेण सर्वोऽप्यधिरूढसंपठ्यपोढपूर्वस्थितिरीदृगेव ॥ ४६ ॥ शनैरिति ॥ लोकहितोद्यतोऽपि शशी शनैर्नभो गगनं समारुह्य अनुरागं प्रीति रक्तता च जहौ । प्रायेण सर्वोऽप्यधिरूढसंपत् सन् ईदृक् चन्द्र इव व्यपोढपूर्वस्थितिर्मुक्तपूर्वस्थितिर्भवति ॥

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230