Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press
View full book text
________________
१७ सर्गः]
द्विसंधानम् ।
१८३
विमुख इति ॥ स रावणो गुरु अनिर्वारं शक्तिशस्त्रं शक्तिसंज्ञशस्त्रं नियोजयन् सन्, तं लक्ष्मणम्, विमुख विधिः फलमिव, खलः कृतमुपकारमिव, लोभो यश इव, मद उपशममिव, आशु शीघ्रम् अरुजत् तुतोद ॥ भारतीयेस जरासंधः । तं नारायणम् । गुरुशक्ति गरिष्टसामर्थ्यम् । शस्त्रम् ॥
विवशोऽपि चित्रमवलोकमयमवगमं च नामुचत् ।
१७ ॥
येन तिमिरमभितो ददृशे कमलोदरेण विविदे न वेदना ॥ विवश इति ॥ येन कारणेन कमलोदरेण विष्णुना तिमिरम् अभितो ददृशे, वेदना न विविदे । तेन विवशः परवशोऽपि सन्नयं नारायणो अवलोकं दृष्टिम् अवगमं ज्ञानं च न अमुचत् ॥
विधुतव्यथः क्षणमवाप युधि न किमु माधवोहितम् ।
दाशरथिरविरतः प्रहरन्निलयं कुलस्य सहसाररक्षसः ॥ १८ ॥ विधुतेति ॥ उमाधवः कीर्तिप्रियो दाशरथी रामो विधुतव्यथस्त्यक्तपीडः सन्नविर - तोsनिवृत्तः सन् सहसाररक्षसः सबलिष्ठराक्षसस्य कुलस्य रावणस्य निलयं प्रहरन् किम् अहितं शत्रुं युधि क्षणं न अवाप । अपि तु प्राप । अथवा रक्षसः कुलस्य निलयं सहसा आर ॥ भारतीये – दाशरथिरविर्दाशो धूर्तो रथी सारथिर्यस्य तादृग् रविः सुविधानप्रकाशनात् । माधवो विष्णुः किमु हितं नावाप अवापैव । अतः कारणात् स प्रहरन् कुलस्य निलयं सहसा ररक्ष ॥
सदृशौ बलेन समकालमधिकृतजयौ निजोद्धती ।
पुण्यदुरितनिचयाविव तौ व्यतिरेधतुर्नतु जवाद्यतीयतुः ॥ १९ ॥
सदृशाविति ॥ बलेन सदृशौ, समकालम् अधिकृतजयावङ्गीकृतजयौ निजोद्धती निजात्मीयोद्धतिर्ययोस्तौ तौ रामरावणौ कृष्णजरासंधौ वा पुण्यदुरितनिचया इव व्यतिरेधतुरन्योन्यं प्रहृतवन्तौ । नतु जवाद्वेगाद्व्यतीयतुः ॥
विरथश्विरेण विहितोऽपि विततधनुषामुना रिपुः ।
जातमिव बहुसुखं सुकृतं विविधं स मूलविभुजं व्यलङ्कयत् ॥ २० ॥ विरथ इति ॥ विततधनुषा अमुना नारायणेन चिरेण बहुकालेन विरथो रथरहितः विहितोऽपि स रिपुर्विविधं नानाप्रकारं बहुमुखं प्रचुरकारणं जातं समुत्पन्नं सुकृतमिव मूलविभुजं रथं व्यलङ्घयत् ॥
अवलोकितुं हरिविघातमसह इव गन्तुमुद्यतः ।
संख्यरुधिरमवलोक्य चिरं स मदादपप्तदिव तीव्रगुः सदा ॥ २१ ॥ अवलोकितुमिति ॥ हरिविघातम् अवलोकितुम् असह इव गन्तुमुद्यतस्तीक्ष्णगुः सः सूर्यश्विरं संख्यरुधिरम् अवलोक्य सदा मदाद् इवापप्तत् ॥

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230