Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press
View full book text
________________
१८२
काव्यमाला ।
न्धनमयी मेघशरीरमयी संवृतिः कस्य । भानुमतः सूर्यस्येव । रुचि न हन्ति इति हेतोः इह सङ्ग्रामे (स नारायणः कवचम्) न अमवीत् बध्नाति स्म ॥
उदयाद्विभूतिरिव भोगगतिरिव नयात्प्रसादतः । सर्वधतिरिव परं पुरुषं जयदेवता गणतिथावृत स्वयम् ॥ ११ ॥ उदयादिति ॥ गणतिथा गणपूरणा जयदेवता जयश्रीः स्वयमात्मना परं पुरुषं पुरुषोत्तम लक्ष्मणं विष्णुम् 'उदयात् विभूतिरिव, नयात् भोगगतिविभूतिविषया प्रवृत्तिरिव, प्रसादतो नयविषयप्रसन्नतायाः सर्वधृतिः समस्तसंतोष इव, अवृत वृतवती ॥
ध्वजमारुरोह गरुडोऽस्य रणमिव दिदृक्षुरुच्चकैः । ध्मातुमिव कुपितवह्निमयं हृदि पाञ्चजन्यमुदपूरि वैरिणः ॥ १२ ॥ ध्वजमिति ॥ गरुडो रणं दिदृक्षुरिव, अस्य नारायणस्योच्चकैरुच्चतरं ध्वजम् आरु. रोह । तथा अयं नारायणो वैरिणो हृदि कुपितवहिं मातुमिव पाञ्चजन्यम् उदपूरि ॥ निनदेन तस्य मिहिरस्य शरभ इव संमुखं रिपुः । प्राप्य कणयनिकरण रथं परतो युगद्वयसमभ्यदुद्रुवत् ॥ १३ ॥ निनदेनेति ॥ रिपू रावणो जरासंधश्च तस्य पाञ्चजन्यस्य 'शरभो मिहिरस्य मेघस्येव' निनदेन ध्वनिना संमुखं प्राप्य कणयनिकरण बाणसमूहेन रथं युगद्वयसम् । प्रमाणे द्वयसच्'। परतः पश्चादभ्यदुद्रुवदपसारितवान् ॥
वरुषा सहोच्छुसितसूतगतिरथ हरिश्च कम्पनैः । तस्य भुजमिव सदाशरथी रणशान्तिमिच्छरिव केतुमच्छिदत् ॥१४ ॥ स्वरुषेति ॥ अथ स्वरुषा निजकोपेन सह उच्छृसितसूतगतिरुच्छसिता सूतस्य सारथेगतिर्येन, स दाशरथी रामो हरिर्लक्ष्मणश्च रणशान्तिमिच्छरिव तस्य रावणस्य केतुं ध्वजम् 'भुजमिव' कम्पनैर्वाणैच्छिदत् ॥ भारतीये-उच्छ्रसितसूतगतिरुच्छसितभटगतिः, सदाशरथी सती समीचीना आशा वाञ्छायेषां ते रथिनो यस्य स हरिनारायणः । चोऽवधारणे क्रियान्वयी ॥
धवलातपत्रमपि तस्य हतमपतदिन्दुमण्डलम् । द्रष्टुमुपगतमिवाजिमतः परुषं रिपुः प्रतिजगर्न तर्जयन् ॥ १५ ॥ धवलेति ॥ (तेन हरिणा) तस्य रिपोर्धवलातपत्रं श्वेतच्छत्रमपि । आजि सङ्ग्रामं द्रष्टुमुपगतमिन्दुमण्डलं चन्द्रबिम्बमिव । हतम् । अतः कारणाद् रिपुः परुषं तर्जयन् सन् प्रतिजगर्ज ॥
विमुखः फलं विधिरिवाशु खल इव कृतं स तं यशः । लोभ इव मद इवोपशमं गुरुशक्तिशस्त्रमरुजन्नियोजयन् ॥ १६ ॥

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230