Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 184
________________ १८० काव्यमाला | वाराङ्गनेति॥तदा वाराङ्गना ननृतुः, पताका उत्पतिता उच्छ्रिताः, तीव्रतैकधृतिः तीव्र तायामेका धृतिर्यस्य स उज्ज्वलदृश्यसेव्य उज्ज्वलद्भिर्कश्यैर्मृगविशेषैः सेव्यो जयचिताश्वबलो जयेन चितमश्वानां बलं येन जयचितमश्वबलं यस्य वा स लक्ष्मीधरो लक्ष्मणो महधि महती ऋद्धिर्यत्र तां महतीमृद्धिमेव वा कुं पृथ्वीम् आप प्राप निलयं गृहं विवेश ॥ भारतीयेव्रतैकधृतिर्वत एवैका धृतिर्यस्या सा कुन्ती महधिम् आप । सश्रीधनंजयचिताश्वबलः श्रियोपलक्षितेन धनंजयेनार्जुनेन चिता अश्वा येन तादृशा बलेन बलभद्रेण च सहित उज्ज्वलदृश्यसेव्य उज्ज्वलतया दृश्यः सेव्यश्च लक्ष्मीधरो नारायणः ॥ इति धनंजय कविविरचिते धनंजयाङ्के राघवपाण्डवीयापरनानि द्विसंधानकाव्ये सङ्ग्रामव्यावर्णनो नाम षोडशः सर्गः । सप्तदशः सर्गः । अथ संयुगं सुतरसाप्तयुगमरिरपश्चिमो हरेः । कालमिव समधिरुह्य रथं तमकालचक्रगतिचक्रमाविशत् ॥ १ ॥ अथेति ॥ अथ हरेरपश्चिम: आद्यो हरेर रिः शत्रू रावणो जरासंधश्च । सुतरसाप्तयुगं सुतैरिन्द्रजिदादिभिः पुत्रै रसेन स्नेहेन आप्तं युगं धुरा यस्य तं सुतरं मनोवेगं साप्तमाचं युगं यस्य तम् । अकालचक्रगतिचक्रम् अकालचक्रस्य प्रलयकालस्येव गतिः प्रवृत्तिर्ययोस्ते चक्रे यस्य तं रथम् । कालं मृत्युम् इव । अधिरुह्य संयुगं युद्धम् आविशत् । उद्गतावृत्तम् ॥ अशिरः शवं शरणमेष विशति कवचं बिभर्ति यः । प्राणविनिमयमयं हि यशः सुलभं भवेदिति स वर्म नाददे ॥ २ ॥ अशिर इति ॥ स शत्रुः यः कवचं बिभर्ति एषोऽशिरः शवं शरणं विशति । यशः प्राणविनिमयमयं प्राणविक्रयनिर्वृतं हि एवं सुलभं भवेत् इति हेतोः वर्म संनाहं न आददे ॥ तमधूममग्निमिव दृष्टिविषमिव विमुक्तकञ्चुकम् । नागमिव विगतवत्रपटं बलवर्जितं ददृशुरूर्जितं सुराः ॥ ३ ॥ तमेति ॥ सुरा बलवर्जितं सैन्यरहितमूर्जितं प्रौढं तमरिम्, अधूममग्निमिव, विमुक्तककमपास्तनिर्मोकं दृष्टिविषं सर्पविशेषमिव, विगतवऋपटमपाकृतवदनाच्छादनं नागं गजमिव, ददृशुः ॥ तनुरक्षमा परिणतेव कुपितमपि हेतिरूपताम् । यातमिव निशितशस्त्रमपि ज्वलनात्मतां गतमिवास्य चक्रिणः ॥ ४ ॥ तनुरिति ॥ अस्य चक्रिणः । तनुः शरीरम्, परिणता वृद्धवनिता इव, अक्षमा क्रोध

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230