________________
१८०
काव्यमाला |
वाराङ्गनेति॥तदा वाराङ्गना ननृतुः, पताका उत्पतिता उच्छ्रिताः, तीव्रतैकधृतिः तीव्र तायामेका धृतिर्यस्य स उज्ज्वलदृश्यसेव्य उज्ज्वलद्भिर्कश्यैर्मृगविशेषैः सेव्यो जयचिताश्वबलो जयेन चितमश्वानां बलं येन जयचितमश्वबलं यस्य वा स लक्ष्मीधरो लक्ष्मणो महधि महती ऋद्धिर्यत्र तां महतीमृद्धिमेव वा कुं पृथ्वीम् आप प्राप निलयं गृहं विवेश ॥ भारतीयेव्रतैकधृतिर्वत एवैका धृतिर्यस्या सा कुन्ती महधिम् आप । सश्रीधनंजयचिताश्वबलः श्रियोपलक्षितेन धनंजयेनार्जुनेन चिता अश्वा येन तादृशा बलेन बलभद्रेण च सहित उज्ज्वलदृश्यसेव्य उज्ज्वलतया दृश्यः सेव्यश्च लक्ष्मीधरो नारायणः ॥
इति धनंजय कविविरचिते धनंजयाङ्के राघवपाण्डवीयापरनानि द्विसंधानकाव्ये सङ्ग्रामव्यावर्णनो नाम षोडशः सर्गः ।
सप्तदशः सर्गः ।
अथ संयुगं सुतरसाप्तयुगमरिरपश्चिमो हरेः ।
कालमिव समधिरुह्य रथं तमकालचक्रगतिचक्रमाविशत् ॥ १ ॥
अथेति ॥ अथ हरेरपश्चिम: आद्यो हरेर रिः शत्रू रावणो जरासंधश्च । सुतरसाप्तयुगं सुतैरिन्द्रजिदादिभिः पुत्रै रसेन स्नेहेन आप्तं युगं धुरा यस्य तं सुतरं मनोवेगं साप्तमाचं युगं यस्य तम् । अकालचक्रगतिचक्रम् अकालचक्रस्य प्रलयकालस्येव गतिः प्रवृत्तिर्ययोस्ते चक्रे यस्य तं रथम् । कालं मृत्युम् इव । अधिरुह्य संयुगं युद्धम् आविशत् । उद्गतावृत्तम् ॥
अशिरः शवं शरणमेष विशति कवचं बिभर्ति यः । प्राणविनिमयमयं हि यशः सुलभं भवेदिति स वर्म नाददे ॥ २ ॥
अशिर इति ॥ स शत्रुः यः कवचं बिभर्ति एषोऽशिरः शवं शरणं विशति । यशः प्राणविनिमयमयं प्राणविक्रयनिर्वृतं हि एवं सुलभं भवेत् इति हेतोः वर्म संनाहं न आददे ॥
तमधूममग्निमिव दृष्टिविषमिव विमुक्तकञ्चुकम् ।
नागमिव विगतवत्रपटं बलवर्जितं ददृशुरूर्जितं सुराः ॥ ३ ॥
तमेति ॥ सुरा बलवर्जितं सैन्यरहितमूर्जितं प्रौढं तमरिम्, अधूममग्निमिव, विमुक्तककमपास्तनिर्मोकं दृष्टिविषं सर्पविशेषमिव, विगतवऋपटमपाकृतवदनाच्छादनं नागं गजमिव, ददृशुः ॥
तनुरक्षमा परिणतेव कुपितमपि हेतिरूपताम् ।
यातमिव निशितशस्त्रमपि ज्वलनात्मतां गतमिवास्य चक्रिणः ॥ ४ ॥ तनुरिति ॥ अस्य चक्रिणः । तनुः शरीरम्, परिणता वृद्धवनिता इव, अक्षमा क्रोध