________________
१६ सर्गः] द्विसंधानम् ।
१७९ इहावापत्कीर्ति हरिदवधिमन्यत्र समया
निलिम्पानां बालां मम पतिरितीवोत्सवभरात् । खदेहं नृत्यन्तं सह सुरवधूमिः परनृपा
विमानस्योत्सङ्गे ददृशुरधिकं विस्मितदृशः ॥ ८४ ॥ इहावेति ॥ परनृपाः शत्रवः सुरवधूभिर्देवाङ्गनाभिः सह विमानस्योत्सङ्गे अधिकं विस्मितदृश आनन्दविस्फारितलोचनाः सन्तः । मम पतिरिह हरिदवधि हरित एवावधिर्यस्यास्तां कीर्तिम्, अन्यत्र देवलोके निलिम्पानां देवानां बालामङ्गनाम् अवापत् प्रापदितीवोत्सवभरानृत्यन्तं नटन्तं खदेहं ददृशुः । शिखरिणी ॥
पतितसकलपत्रा तत्र कीर्णारिमेदा
वनततिरिव रुग्णा सामजैर्भूमिरासीत् । निहतनिरवशेषा वाङ्गशेषावतस्थे ।
कथमपि रिपुलक्ष्मीरेकमूला लतेव ।। ८५॥ पतितेति ॥ तत्र पतितसकलपत्रा प्रभ्रष्टसमस्तवाहना परिभ्रष्टसंपूर्णच्छदा कीर्णारिमेदाकीर्ण प्रसृतम् अरीणां मेदो यस्यां सा कीर्णविट्खदिरा, भूमिः । वनततिरिव । सामजैर्गजै रुग्णा भामा आसीत् । तथा निहत निरवशेषा ध्वस्तचतुरङ्गबला, परिक्षीणफलकुसुमाद्यवयवा । स्वाङ्गशेषा रिपुलक्ष्मीः । एकमूला लतेव । कथमपि अवतस्थे । मालिनी॥
सामाजिकैर्नृपजनैः पिशिताशिवगैः
शैलूषतामुपगतैश्च कबन्धपात्रम् । नृत्यं शिवारुतमृदङ्गरवं निरूप्य
संगृह्य बन्दिमविशशिबिरं हरीशाः ॥ ८६ ॥ सामाजिकैरिति ॥ हरीशा वानरेन्द्रा यादवाश्च नृपजनैः सामाजिकैः सद्भिः पिशिताशिवगै राक्षससमूहैः शैलूषतां नटताम् उपगतैः सद्भिः कबन्धपात्रं कबन्धान्येव रुण्डानि एव पा. त्राणि नर्तका यत्र तादृशं शिवारुतमृदङ्गरवं शिवारुतमेव मृदङ्गरवो यत्र तादृशं नृत्यं निरूप्य दृष्ट्वा बन्दि बन्दिजनं स्तावकं संगृह्य हिरण्यादि दत्त्वा शिबिरं सेनानिवेशस्थानम् अविशन् प्रविष्टाः । वसन्ततिलका ॥
वाराङ्गना ननृतुरुत्पतिताः पताकाः
कुन्तीव्रतैकधृतिराप तदा महर्धिम् । लक्ष्मीधरो निलयमुज्ज्वलदृश्यसेव्यः
सश्रीधनंजयचिताश्वबलो विवेश ॥ ८७ ॥