________________
१७८
काव्यमाला।
ननिरूढदीप्ति शाणनिशितकान्तिम्, समारुतिः समा साधारणा आरुतिध्वनिर्यस्य सः, गान्धारको दुर्योधनः । (३) सदाशाननिरूढदीप्तिं दाशानां भृत्यानाम् आनेन प्राणनेन सहिता निरूढा निशिता दीप्तिर्यस्य तमसि बिभ्रत्, पतितः स्वामिनो युधिष्ठिरतो, अधिकाधः, समारुतिः समेषु सर्वेषु आरुतिरभयध्वनिर्यस्य, नरराजवन्द्यः नरराजेनार्जुनेन वन्यो वन्दनीयो, भीमो वृकोदरः अहननात् शत्रूणाममारणाद् अदूरो निकटः किं जातः । अपि तु मारणनिकटः ॥
परेऽपि ये यैर्विधृता नरेन्द्राः कैर्नावबुद्धं युधि नाम तेषाम् ।
यः कोऽपि दिग्देशकुलप्रमाणं वेवेक्ति राज्ञोऽपि परं स वेत्ति ॥८॥ परेऽपीति ॥ यैर्नरेन्द्रर्येऽपि परे शत्रवो नरेन्द्रा युधि विधृतास्तेषां नाम कैर्नावबुद्धम् ॥ यः कोऽपि दिग्देशकुलप्रमाणं दिशां पूर्वादीनां देशानामङ्गवङ्गकलिङ्गादीनां कुलानामिक्ष्वा. कुसूर्यादीनां प्रमाणं वेवेक्ति जानाति, स परं केवलं राज्ञोऽपि वेत्ति ॥
आपृच्छमाना इव नादवत्त्वान्निरोद्भुकामा इव विप्रयोगात् । सोच्छ्रासकैरुच्छसतां प्रियाणां प्राणा नृणां कण्ठगता बभूवुः ॥ ८१॥
आपृच्छेति ॥ सोच्छासकैरुच्छसतां नृणां प्राणा नादवत्त्वादापृच्छमानाः प्रश्नं कुर्वाणा इव प्रियाणां विप्रयोगात् निरोद्भुकामा इव, कण्ठगता बभूवुः ॥
असृग्वसामांसरसेन भग्ना मस्तिष्कमुन्मनकपालशल्कम् । आस्वाद्य तदाधिककल्पमल्पा लेभे रुचिर्भग्नमुखैः पिशाचैः ॥ ८२ ॥ असृगिति ॥ भग्नमुखैरपाटववदनैः पिशाचैर्दाधिककल्पमीषदसमाप्तं दना संस्कृतम्, उन्मनकपालशल्कम् उन्मग्नं पूरितं कपालस्य शुल्कं खण्डं येन तत्, मस्तिष्कं शिरोमेद आस्वाद्य असृग्वसामांसरसेन भन्ना अल्पा रुचिलेंभे ॥
भुवि दिशि दिवि कश्चिद्यः समज्ञानतृप्तः __ सपदि हरिविधानं यातुधानः सुरो वा । परिततसुमनास्तं विक्रमं धाम धैर्य
विपुलपुलकिताङ्गस्तत्र तुष्टाव तुष्टः ॥ ८३ ॥ भुवीति ॥ यः कश्चित् भुवि दिशि दिवि मज्ज्ञा मजया न तृप्तः स परिततसुमनाः प्रसृतचेता विपुलपुलकिताङ्गः प्रचुररोमाञ्चितशरीरस्तुष्ट आनन्दितो यातुधानः यः कश्चित् भुवि दिशि दिवि समज्ञानतप्तः समेन ज्ञानेन तृप्तः (एकानेकजकारभेदेऽप्यत्र जकारस्य द्वित्वेन 'न व्यञ्जनपरस्य' इत्यादिभाष्यसूचितश्रुतिसाम्येन वा न दोषः) परिततसुमनाः विस्तृतकुसुमः। कृतपुष्पवृष्टिरिति भावः। ससुरो देवश्च, तत्र सङ्ग्रामे, हरिविधानं हरेर्नारायणाद्विधानं क्रिया यस्य तादृशं विक्रमं पराक्रम, धाम प्रतापं, धैर्य तुष्टाव। मालिनी ॥