________________
१७७
१६ सर्गः]
द्विसंधानम् । विद्यानवद्यैः कवचानि शस्त्रैस्तेन द्विधाभित्सत शात्रवस्य । सहस्रशः संतमसानि तीव्ररुनिशीथस्य विवस्वतेव ॥ ७५ ॥ विद्येति ॥ तेन राजसमूहेन विद्यानवद्यैर्धनुर्विद्यापूतैः शस्त्रैः शात्रवस्य शत्रुसमूहस्य कवचानि द्विधा । विवस्वता सूर्येण तीत्रैः सोढुमशक्यैरुपैः किरणैनिशीथस्य संतमसानि घनान्धकाराणि सहस्रश इव । अभित्सत ॥
करीव सोऽपात्तमुखच्छदोऽयं व्यपोढवर्मा युधि वैरिवर्गः । पतन्गृहीतासिररोधि बाणैर्नयैर्विनीपात इवावनीशैः ॥ ७६ ॥ करीवेति ॥ अवनीशैः क्षितिपालैः युधि समरे करी गज इव. अपात्तमुखच्छदः परित्यक्तमुखप्रच्छादनो व्यपोढवर्मा मुक्तकवचः अयं वैरिवर्गः शत्रुसमूहो गृहीतासिः स्वीकृतखङ्गः पतन बाणैः । विनीपातो दुर्नयो नयैरिव । अरोधि ॥ निहत्य निस्त्रिंशगतिं तदीयां धृतः कथंचिन्नृपतिव्रजेन । प्रभावशास्त्रप्रबलेन तेन शमेन रागादिरिवारिसंघः ॥ ७७ ॥ निहत्येति ॥ प्रभावशास्त्रप्रबलेन प्रभावशं दीप्त्यायत्तम् अस्त्रं शस्त्रं यस्य तत् प्रकृष्टं बलं यस्य तेन, नृपतिव्रजेन राजसमहेनारिसंघस्तदीयां शत्रुसंबन्धिनी निस्त्रिंशगतिं खड्गगतिम् । प्रभावशास्त्रप्रबलेन प्रकृष्टो भावो यस्य तादृशः शास्त्रात् प्रकृष्टं बलं यस्य तेन शमेन रागादिस्तदीयां निस्त्रिंशगति निर्दयप्रवृत्तिमिव । निहत्य धृतः ॥
अभूम शौर्यस्य पदं रणेऽस्मिन्नधाम धैर्य प्रथितं वयं तत् । अस्थामयुक्ता इति भूमिपानां समु(मो)ह्यते स्म द्वितयेन युद्धम् ॥७८॥ अभूमेति ॥ यतो वयम् अस्थामयुक्ता असामर्थ्यसमन्विता अभूम संजाताः तत् तस्माकारणात् अस्मिन् रणे शौर्यस्य पदं स्थानं धैर्य प्रथितं, न तु धाम प्रतापलक्षणतेजः इति भूमिपानां द्वितयेन युद्धम् समु(मो)ह्यते सम्यगासमन्तानीयते स्म ॥ भारतीयेवयं शौर्यस्य पदम् अभूम, अस्मिन् रणे, प्रथितं धैर्य अधाम धृतवन्तः, तत् युक्ता मिलिता अस्थाम स्थितवन्त इति, समु(मो)ह्यते सम्यक् वितळते ॥ बिभ्रत्सदाशाननिरूढदीप्तिं गान्धारकोऽसिं पतितोऽधिकधिः । समारुतिः किंनरराजवन्द्यो जातोऽत्र भीमोहननाददूरः॥ ७९ ॥ बिभ्रदिति ॥ उढदीप्तिं धृततेजसम् असिं खड्गं बिभ्रत् (नाभ्यस्तादिति न नुम्), गां पृथिवीं धारको भर्ता, अधिकधिः प्रचुरसमृद्धिः, समारुतिः मया प्रमाणेन सहिता रुतिध्वनिर्यस्य स वन्द्यः प्रशस्यः पतितः प्राप्तः स दाशाननी रावणात्मज इन्द्रजित् किं न रराज । रराजैव । अत्र रणे भीमोहननाददूरः भिया भयेन मोहनं यस्मानादाह्रो भयमोहध्वनिवर्जितः, जातः । (१) आशाननिरूढदीप्तिम् आशानां दिशाम् आनं प्राणनं यस्मात्तं निशितकान्तिम् असिम्, सदा बिभ्रत्, स मारुतिर्हनूमान् । (२) भारतीये-शा
२३