________________
१७६
काव्यमाला ।
ध्वनत्सु तूर्येषु शिवाङ्गनासु भेजे समङ्गल्यरवोद्यतासु । सशोणिता भूः परिणीयमाना कन्याभिषिक्तेव कषायतोयैः ॥ ७० ॥
ध्वनत्स्विति ॥ भू: पृथ्वी तूर्येषु ध्वनत्सु, शिवाङ्गनासु शृगालीषु समं युगपत् गल्यरवोद्यतासु गल्ये कण्ठभवे रखे उद्यतासु सतीषु सशोणिता सरक्ता । परिणीयमाना कन्या समङ्गल्यरवोद्यतासु मङ्गलार्हेरवेण सहितासूयतासु शिवाङ्गनासु सभर्तृकभार्यासु सतीषु, कषायतोयैरभिषिक्तेव । भेजे ॥
इत्युद्यतं राजकमन्यपक्षं प्रत्युद्ययावत्कमुपेन्द्रगृह्यम् ।
स्वमर्पयन्तं सदनेऽभिमित्रं रणेऽभ्यमित्रीणमुदारमाहुः ॥ ७१ ॥
इत्युद्येति ॥ उपेन्द्रगृह्यं लक्ष्मणगृह्यं नारायणगृह्यं उत्कमुत्कण्ठितं राजकं राजसमूहः इत्येवंप्रकारेण उद्यतम् अन्यपक्षं शत्रुपक्षम् उद्ययौ । सदने अभिमित्रं मित्रमभिलक्ष्य स्वमात्मीयम् रणे अभ्यमित्रीणं शत्रुसंमुखगमनशीलम्, स्वमात्मानम् अर्पयन्तम्, उदारम् आहुः ॥
,
स्वं पूर्वकार्यं प्रविशद्भिरश्वैरमुक्तमार्गैरथकर्मभारैः ।
अतारि तिर्यङ्नरकोपबद्धा कृच्छ्रात्कृताधैरिव जन्यभूमिः ॥ ७२ ॥ स्वमिति ॥ स्वमात्मीयं पूर्वकायमग्राङ्गं प्रविशद्भिः अमुक्तमार्गेरत्यक्तसंचरै रथकर्मभारैः रथकर्मैव भारो येषां तैरश्वैः, नरकोपबद्धा नराणां कोपैर्बद्धा, जन्यभूमी रणभूमिस्तिर्यग् यथा स्यात्तथा । अमुक्तमार्गेः न मुक्तानां मार्गो येषु तैः कर्मभारैः करणैः स्वं पूर्वकायं प्रविशद्भिः कृताद्यैर्विरचितपापैर्जनै तिर्यङ्नरकोपबद्धा तिर्यग्भिर्नरकैश्चोपबद्धा जन्यभूमिरिव । कृच्छ्रात्कष्टात् अतारि ॥
रथान्वसावेशविवृत्तचक्रान्रथ्याः सुखेनाचकृषुस्तुरंगाः ।
सारथ्य भीषु भ्रमणानुकूलमाकृष्यते स्नेहवशेन सर्वः ॥ ७३ ॥
स्थानिति ॥ रथ्या रथस्य वोढारस्तुरंगाः, वसावेशविवृत्तचक्रान् वसाया मांसस्नेहस्य आवेशेन लेपेन विवृत्तानि भ्रमणशीलानि चक्राणि येषां तान् रथान् सारथ्य भीषु भ्रमणानुकूलं सारथिरज्जु भ्रमणानुलोमं यथा स्यात्तथा सुखेन आचकृषुः । स्नेहवशेन सर्व आकृष्यते ॥
ततोऽभ्यमित्रीयमिदं गरीयो राजन्यकं व्यातत धर्मलोपम् ।
गुणच्छिदापूर्वसरं परेषां क्रोधाकुलानामविधिः कुतो वा ॥ ७४ ॥
तत इति ॥ तत इदम् अभ्यमित्रीयम् अमित्रं शत्रुमभिलक्ष्य गमनशीलं राजन्यकं राजकुमारसमूहः परेषां शत्रूणां गुणच्छिदापूर्वसरं शौर्यादेर्ज्यायाश्च च्छिदा छेदनं पूर्वसरा यस्मिन् धर्मलोपं धर्मस्य अदृष्टस्य धनुष्काण्डस्य च लोपं गरीयो यथा स्यात्तथा व्यातत । क्रोधाकुलानां कुतोऽविधिर्भवेत् ॥
9