________________
१६ सर्गः] द्विसंधानम् ।
१७५ हता हया न द्विषतां प्रतापा रथोऽवरुग्णो न मनोरथोऽभूत् ।
वैरथ्ययोगेऽपि महारथत्वं नापत्सु यत्सीदति तद्धि धैर्यम् ॥ ६४ ॥ __ हता इति ॥ अवरुग्णो भन्नः । वैरयथ्योगेऽपि विनष्टरथत्वयोगेऽपि द्विषतां महारथत्वं महारथित्वं पौरुषं जायते । हि यतः यत् आपत्सुन सीदति क्लेशं वहति तद् धैर्य भवति ॥
रथान्नतूच्चैः पदतोऽवतेरुश्चापं सपत्ना जगृहुने खेदम् ।। तथावदानोचितचेतसोऽपि दोषाभिमुख्येन गुणं निजघ्नुः ॥६५॥ रथानेति ॥ सपत्नाः शत्रवः, रथात् अवतेरुः, न तु उच्चैः पदतः । चापं जगृहुः न तु खे. दम् । तथा अवदानोचितचेतसः अवदाने त्यागशौर्याभ्यां विख्यातत्वे उचितं चेतो येषाम्, अवदानस्य खण्डनस्योचितं चेतो येषां वा तादृशोऽपि । दोषाभिमुख्येन कुनीतितत्परतया, दोषयोर्भुजयोराभिमुख्येन प्राधान्येन । गुणं शौर्योदायर्यादिलक्षणम्, मौर्वीम् । निजन्नुनिहतवन्तः, आस्फालयन्ति स्म । विरोधपरिहारौ व्याख्यातौ ॥
उल्काशरं शक्रधनुस्तडिज्ज्यं घना दधाना इव तत्कथंचित् । अधिज्यचापाः शरजालमुग्रं ते लोहितापक्रममभ्यमुञ्चन् ॥ ६६ ॥ उल्केति ॥ अधिज्यचापा आरोपितशरासनाः, ते राजानो लोहितापक्रमं लोहमस्यास्ति तत्ताया स एव वा अपक्रमो यत्र तत्, उग्रं तीव्र तच् शरजालं बाणजालम् । उल्काशरम् उल्कैव शरो यत्र तम्, तडिज्ज्यं तडिदेव ज्या यत्र तत् , शक्रधनुरिन्द्रचापं दधाना घना लोहितापक्रमं लोहितस्य अपक्रमो यस्मात् , लोहितात् अभ्रात् अपक्रमः प्राप्तिर्यस्य वा तत्, शरजालं जलसमूहम् इव, । कथंचिदभ्यमुश्चन् ॥
ते रोपणैरावृषतार्कभासस्तत्पादधाताविनयक्रुधेव । चिद्वैश्चमूनां निहतैनिपेते भियोत्तरीयैरिव दिग्वधूनाम् ॥ ६७ ॥ ते रोपेति ॥ ते नरेन्द्रा रोपणैरर्कभासः सूर्यदीप्तीः तत्पादघाताविनयक्रुधा तच्चरण. प्रहारजाविनयजकोपेनेव । आवृषत आच्छादितवन्तः । निहतैः चमूनां चिकैः । दिग्वधूनामुत्तरीयैभियेव । निपेते ॥
तैरुत्तरङ्गाकुलितास्तुरंगा वातैः प्रवाहा इव वारिराशेः । रथाश्च नुन्नाः परतोऽपसनुः खं मन्यमाना इव दुनिमित्तम् ॥ ६८ ॥ तैरुत्तेति ॥ तैर्नरेन्द्ररोपणैर्नुनाः प्रेरिता: उत्तरङ्गाकुलिताः क्लिनसमरभूम्याकुलिताः उत्प्लवनाकुलिताः अोभिव्याकुलितास्तुरंगा अश्वा रथाश्च । वातैर्नुना वारिराशेः प्रवाहा इव । दुनिमित्तमिव स्वमात्मानं मन्यमानाः सन्तः परतोऽपसस्रुः ॥
हतः करेणुः पतितः पदातिर्भग्नो वरूथः शिबिरं निरस्तम् । भुवोऽभवद्विश्वममङ्गलोत्थं भारो निरुन्धन्निव भूमिकम्पम् ॥ ६९ ॥ हत इति ॥ भुवो भारः । अमङ्गलोत्थं विश्वं भूमिकम्पं निरुन्धन्निव । अभवत् ॥