SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १७ सर्गः] द्विसंधानम् । १८३ विमुख इति ॥ स रावणो गुरु अनिर्वारं शक्तिशस्त्रं शक्तिसंज्ञशस्त्रं नियोजयन् सन्, तं लक्ष्मणम्, विमुख विधिः फलमिव, खलः कृतमुपकारमिव, लोभो यश इव, मद उपशममिव, आशु शीघ्रम् अरुजत् तुतोद ॥ भारतीयेस जरासंधः । तं नारायणम् । गुरुशक्ति गरिष्टसामर्थ्यम् । शस्त्रम् ॥ विवशोऽपि चित्रमवलोकमयमवगमं च नामुचत् । १७ ॥ येन तिमिरमभितो ददृशे कमलोदरेण विविदे न वेदना ॥ विवश इति ॥ येन कारणेन कमलोदरेण विष्णुना तिमिरम् अभितो ददृशे, वेदना न विविदे । तेन विवशः परवशोऽपि सन्नयं नारायणो अवलोकं दृष्टिम् अवगमं ज्ञानं च न अमुचत् ॥ विधुतव्यथः क्षणमवाप युधि न किमु माधवोहितम् । दाशरथिरविरतः प्रहरन्निलयं कुलस्य सहसाररक्षसः ॥ १८ ॥ विधुतेति ॥ उमाधवः कीर्तिप्रियो दाशरथी रामो विधुतव्यथस्त्यक्तपीडः सन्नविर - तोsनिवृत्तः सन् सहसाररक्षसः सबलिष्ठराक्षसस्य कुलस्य रावणस्य निलयं प्रहरन् किम् अहितं शत्रुं युधि क्षणं न अवाप । अपि तु प्राप । अथवा रक्षसः कुलस्य निलयं सहसा आर ॥ भारतीये – दाशरथिरविर्दाशो धूर्तो रथी सारथिर्यस्य तादृग् रविः सुविधानप्रकाशनात् । माधवो विष्णुः किमु हितं नावाप अवापैव । अतः कारणात् स प्रहरन् कुलस्य निलयं सहसा ररक्ष ॥ सदृशौ बलेन समकालमधिकृतजयौ निजोद्धती । पुण्यदुरितनिचयाविव तौ व्यतिरेधतुर्नतु जवाद्यतीयतुः ॥ १९ ॥ सदृशाविति ॥ बलेन सदृशौ, समकालम् अधिकृतजयावङ्गीकृतजयौ निजोद्धती निजात्मीयोद्धतिर्ययोस्तौ तौ रामरावणौ कृष्णजरासंधौ वा पुण्यदुरितनिचया इव व्यतिरेधतुरन्योन्यं प्रहृतवन्तौ । नतु जवाद्वेगाद्व्यतीयतुः ॥ विरथश्विरेण विहितोऽपि विततधनुषामुना रिपुः । जातमिव बहुसुखं सुकृतं विविधं स मूलविभुजं व्यलङ्कयत् ॥ २० ॥ विरथ इति ॥ विततधनुषा अमुना नारायणेन चिरेण बहुकालेन विरथो रथरहितः विहितोऽपि स रिपुर्विविधं नानाप्रकारं बहुमुखं प्रचुरकारणं जातं समुत्पन्नं सुकृतमिव मूलविभुजं रथं व्यलङ्घयत् ॥ अवलोकितुं हरिविघातमसह इव गन्तुमुद्यतः । संख्यरुधिरमवलोक्य चिरं स मदादपप्तदिव तीव्रगुः सदा ॥ २१ ॥ अवलोकितुमिति ॥ हरिविघातम् अवलोकितुम् असह इव गन्तुमुद्यतस्तीक्ष्णगुः सः सूर्यश्विरं संख्यरुधिरम् अवलोक्य सदा मदाद् इवापप्तत् ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy