SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १८४ काव्यमाला । स विपन्नबन्धुमुपदृश्य नृपजनमशेषमंशुमान् । दुःखजलमवतरीतुमिव प्रतिपश्चिमार्णवतटं व्यलम्बत ॥ २२ ॥ स इति ॥ सोंऽशुमान् । विपन्नबन्धुं मृतबन्धुमशेषं नृपजनमुपदृश्य दृष्ट्वा दुःखजलं दुःखमेव जलम् अवतरीतुमिव । पश्चिमार्णवतटं पश्चिमसमुद्रतीरं प्रति व्यलम्बत ॥ सवितापि संहृतिमियाय नियतदिवसातिलङ्घनः । हन्त किमु किल निषेकदिनं जगति व्यतिक्रमितुमक्षमो जनः ॥२३॥ सवितेति ॥ नियतदिवसातिलङ्घनो निश्चितदिनातिक्रमः सविता सूर्योऽपि संहृति संहारम् इयाय गतवान् । हन्त कष्टम्, किल निश्चये, किमु अहो जगति लोके जनो निषे. कदिनं मरणदिनं व्यतिक्रमितुमुल्लचितुमक्षम इति किमाश्चर्यम् । यत्र सूर्योऽपि संहारं गतः तत्र प्राकृतस्य का कथेति भावः ॥ गतवत्यरौ तमनुमत्य परमपुरुषं महोदयैः। व्याप्य निशिततमसंप्लवगैः स्थितमर्जुनप्रकृति तत्र राजकम् ॥ २४ ॥ गतेति ॥ तत्र रणे, राजकं सुग्रीवप्रभृति, अरौ रावणे गतवति सति, निशिततमसं तीक्ष्णतिमिरं विनष्टचेतनं तं परमपुरुषं लक्ष्मणमनुमत्य ज्ञात्वा महोदयैः प्लवगैाप्य वेष्टयित्वा अर्जुनप्रकृति शुद्धप्रकृति यथा स्यात्तथा स्थितम् ॥ भारतीये-अर्जुनप्रकृति मध्यमपाण्डवप्रधानमसंप्लवगैः शिष्टवारयोगैर्महोदयैस्ततं व्याप्तं, राजकम्, निशि तं परमपुरुषं विष्णुम् अनुमत्य व्याप्य वेष्टयित्वा ॥ न किलास्ति कोऽप्यवनिमानमवगत इतीरितोद्यमः । पादपरिगणनया भुवनं रविरेष मित्सुरिव दूरमत्यगात् ॥ २५ ॥ न किलेति ॥ एष रविः 'किल निश्चये कोऽपि अवनिमानं न अवगतोऽस्ति' इति हैतोरीरितोद्यमः सन् पादगणनया भुवनं मित्सुरिव दूरं यथा स्यात्तथा अत्यगात् ॥ सदृशोदयास्तमयवृत्तिरजनि तपनोऽनुरागतः । संपदियमिह विपञ्च परं परिवर्तते नहि महीयसः स्थितिः ॥ २६ ॥ सदृशविति ॥ तपनः सूर्योऽनुरागतोऽनुरागवशात् सदृशोदयास्तमयवृत्तिः सदृशा तुल्या उदयास्तमययोवृत्तिर्यस्य तादृग् अजनि । हि यतः-इह लोके इयं संपत् विपच्च परं परिवर्तते । महीयसः स्थितिर्न परिवर्तते ॥ क्षतजप्रवाहनिवहस्य समरभुवि सर्पतो दिशः। रागपटलमधिरूढमिव द्युतलानि सांध्यमरुणं बभौ महः ॥ २७ ॥ क्षतजेति ॥ सांध्यं संध्याभवम् अरुणं रोहितं महः 'समरभुवि दिश: आशाः सर्पतो
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy