Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 181
________________ १७७ १६ सर्गः] द्विसंधानम् । विद्यानवद्यैः कवचानि शस्त्रैस्तेन द्विधाभित्सत शात्रवस्य । सहस्रशः संतमसानि तीव्ररुनिशीथस्य विवस्वतेव ॥ ७५ ॥ विद्येति ॥ तेन राजसमूहेन विद्यानवद्यैर्धनुर्विद्यापूतैः शस्त्रैः शात्रवस्य शत्रुसमूहस्य कवचानि द्विधा । विवस्वता सूर्येण तीत्रैः सोढुमशक्यैरुपैः किरणैनिशीथस्य संतमसानि घनान्धकाराणि सहस्रश इव । अभित्सत ॥ करीव सोऽपात्तमुखच्छदोऽयं व्यपोढवर्मा युधि वैरिवर्गः । पतन्गृहीतासिररोधि बाणैर्नयैर्विनीपात इवावनीशैः ॥ ७६ ॥ करीवेति ॥ अवनीशैः क्षितिपालैः युधि समरे करी गज इव. अपात्तमुखच्छदः परित्यक्तमुखप्रच्छादनो व्यपोढवर्मा मुक्तकवचः अयं वैरिवर्गः शत्रुसमूहो गृहीतासिः स्वीकृतखङ्गः पतन बाणैः । विनीपातो दुर्नयो नयैरिव । अरोधि ॥ निहत्य निस्त्रिंशगतिं तदीयां धृतः कथंचिन्नृपतिव्रजेन । प्रभावशास्त्रप्रबलेन तेन शमेन रागादिरिवारिसंघः ॥ ७७ ॥ निहत्येति ॥ प्रभावशास्त्रप्रबलेन प्रभावशं दीप्त्यायत्तम् अस्त्रं शस्त्रं यस्य तत् प्रकृष्टं बलं यस्य तेन, नृपतिव्रजेन राजसमहेनारिसंघस्तदीयां शत्रुसंबन्धिनी निस्त्रिंशगतिं खड्गगतिम् । प्रभावशास्त्रप्रबलेन प्रकृष्टो भावो यस्य तादृशः शास्त्रात् प्रकृष्टं बलं यस्य तेन शमेन रागादिस्तदीयां निस्त्रिंशगति निर्दयप्रवृत्तिमिव । निहत्य धृतः ॥ अभूम शौर्यस्य पदं रणेऽस्मिन्नधाम धैर्य प्रथितं वयं तत् । अस्थामयुक्ता इति भूमिपानां समु(मो)ह्यते स्म द्वितयेन युद्धम् ॥७८॥ अभूमेति ॥ यतो वयम् अस्थामयुक्ता असामर्थ्यसमन्विता अभूम संजाताः तत् तस्माकारणात् अस्मिन् रणे शौर्यस्य पदं स्थानं धैर्य प्रथितं, न तु धाम प्रतापलक्षणतेजः इति भूमिपानां द्वितयेन युद्धम् समु(मो)ह्यते सम्यगासमन्तानीयते स्म ॥ भारतीयेवयं शौर्यस्य पदम् अभूम, अस्मिन् रणे, प्रथितं धैर्य अधाम धृतवन्तः, तत् युक्ता मिलिता अस्थाम स्थितवन्त इति, समु(मो)ह्यते सम्यक् वितळते ॥ बिभ्रत्सदाशाननिरूढदीप्तिं गान्धारकोऽसिं पतितोऽधिकधिः । समारुतिः किंनरराजवन्द्यो जातोऽत्र भीमोहननाददूरः॥ ७९ ॥ बिभ्रदिति ॥ उढदीप्तिं धृततेजसम् असिं खड्गं बिभ्रत् (नाभ्यस्तादिति न नुम्), गां पृथिवीं धारको भर्ता, अधिकधिः प्रचुरसमृद्धिः, समारुतिः मया प्रमाणेन सहिता रुतिध्वनिर्यस्य स वन्द्यः प्रशस्यः पतितः प्राप्तः स दाशाननी रावणात्मज इन्द्रजित् किं न रराज । रराजैव । अत्र रणे भीमोहननाददूरः भिया भयेन मोहनं यस्मानादाह्रो भयमोहध्वनिवर्जितः, जातः । (१) आशाननिरूढदीप्तिम् आशानां दिशाम् आनं प्राणनं यस्मात्तं निशितकान्तिम् असिम्, सदा बिभ्रत्, स मारुतिर्हनूमान् । (२) भारतीये-शा २३

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230