Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 179
________________ १६ सर्गः] द्विसंधानम् । १७५ हता हया न द्विषतां प्रतापा रथोऽवरुग्णो न मनोरथोऽभूत् । वैरथ्ययोगेऽपि महारथत्वं नापत्सु यत्सीदति तद्धि धैर्यम् ॥ ६४ ॥ __ हता इति ॥ अवरुग्णो भन्नः । वैरयथ्योगेऽपि विनष्टरथत्वयोगेऽपि द्विषतां महारथत्वं महारथित्वं पौरुषं जायते । हि यतः यत् आपत्सुन सीदति क्लेशं वहति तद् धैर्य भवति ॥ रथान्नतूच्चैः पदतोऽवतेरुश्चापं सपत्ना जगृहुने खेदम् ।। तथावदानोचितचेतसोऽपि दोषाभिमुख्येन गुणं निजघ्नुः ॥६५॥ रथानेति ॥ सपत्नाः शत्रवः, रथात् अवतेरुः, न तु उच्चैः पदतः । चापं जगृहुः न तु खे. दम् । तथा अवदानोचितचेतसः अवदाने त्यागशौर्याभ्यां विख्यातत्वे उचितं चेतो येषाम्, अवदानस्य खण्डनस्योचितं चेतो येषां वा तादृशोऽपि । दोषाभिमुख्येन कुनीतितत्परतया, दोषयोर्भुजयोराभिमुख्येन प्राधान्येन । गुणं शौर्योदायर्यादिलक्षणम्, मौर्वीम् । निजन्नुनिहतवन्तः, आस्फालयन्ति स्म । विरोधपरिहारौ व्याख्यातौ ॥ उल्काशरं शक्रधनुस्तडिज्ज्यं घना दधाना इव तत्कथंचित् । अधिज्यचापाः शरजालमुग्रं ते लोहितापक्रममभ्यमुञ्चन् ॥ ६६ ॥ उल्केति ॥ अधिज्यचापा आरोपितशरासनाः, ते राजानो लोहितापक्रमं लोहमस्यास्ति तत्ताया स एव वा अपक्रमो यत्र तत्, उग्रं तीव्र तच् शरजालं बाणजालम् । उल्काशरम् उल्कैव शरो यत्र तम्, तडिज्ज्यं तडिदेव ज्या यत्र तत् , शक्रधनुरिन्द्रचापं दधाना घना लोहितापक्रमं लोहितस्य अपक्रमो यस्मात् , लोहितात् अभ्रात् अपक्रमः प्राप्तिर्यस्य वा तत्, शरजालं जलसमूहम् इव, । कथंचिदभ्यमुश्चन् ॥ ते रोपणैरावृषतार्कभासस्तत्पादधाताविनयक्रुधेव । चिद्वैश्चमूनां निहतैनिपेते भियोत्तरीयैरिव दिग्वधूनाम् ॥ ६७ ॥ ते रोपेति ॥ ते नरेन्द्रा रोपणैरर्कभासः सूर्यदीप्तीः तत्पादघाताविनयक्रुधा तच्चरण. प्रहारजाविनयजकोपेनेव । आवृषत आच्छादितवन्तः । निहतैः चमूनां चिकैः । दिग्वधूनामुत्तरीयैभियेव । निपेते ॥ तैरुत्तरङ्गाकुलितास्तुरंगा वातैः प्रवाहा इव वारिराशेः । रथाश्च नुन्नाः परतोऽपसनुः खं मन्यमाना इव दुनिमित्तम् ॥ ६८ ॥ तैरुत्तेति ॥ तैर्नरेन्द्ररोपणैर्नुनाः प्रेरिता: उत्तरङ्गाकुलिताः क्लिनसमरभूम्याकुलिताः उत्प्लवनाकुलिताः अोभिव्याकुलितास्तुरंगा अश्वा रथाश्च । वातैर्नुना वारिराशेः प्रवाहा इव । दुनिमित्तमिव स्वमात्मानं मन्यमानाः सन्तः परतोऽपसस्रुः ॥ हतः करेणुः पतितः पदातिर्भग्नो वरूथः शिबिरं निरस्तम् । भुवोऽभवद्विश्वममङ्गलोत्थं भारो निरुन्धन्निव भूमिकम्पम् ॥ ६९ ॥ हत इति ॥ भुवो भारः । अमङ्गलोत्थं विश्वं भूमिकम्पं निरुन्धन्निव । अभवत् ॥

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230