Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 169
________________ १६ सर्गः ] द्विसंधानम् । १६९ दुःशासनं तीव्राज्ञमरिरूपं शत्रुरूपम् । बलेव विशेषणम् । कुम्भकर्ण रावणानुजं वीक्ष्य संप्रति तत्कालं चकम्पे ॥ भारतीये – कुम्भकर्ण कुम्भको गज ऋणं यस्य कुम्भकस्वामिनं दुःशासनं दुर्योधनानुजम् ॥ न कानिकुम्भासुरभावमाजौ दुर्मर्षणं दूरमभिद्रवन्तम् । रुषात्मशङ्कामगमन्निरीक्ष्य प्रजातमुच्चैर्भुवना नितान्तम् ॥ १३ ॥ ( sयर्थः ) नेति ॥ का उच्चैर्भुवना प्रजा रुषा दुर्मर्षणं दुःसहं दूरमभिद्रवं दूरमान् दुःखेन रममाणान् भिन्दन् वो यस्य तम्, आजौ आतम् आ समन्तत आत: अतनं सातत्यगमनं यस्य तं तं निकुम्भासुरभावं निकुम्भासुरस्य भावं निरीक्ष्य, नितान्तमात्मशङ्कां नागमत् ॥ कानि भुवनान्याजौ दूरं विप्रकृष्टं यथा स्यात्तथाभिद्रवन्तं रुषा प्रजातं समुत्पन्नं, कुम्भासुरभावं निरीक्ष्य, उच्चैरतिशयेन तान्तं कष्टं यथा स्यात्तथा नागमन् ॥ भारतीये - रुषा कोपेन कुं पृथिवीं प्रजातं प्रजानाम् आतः पलायनं यस्मात्तादृक् यथा स्यात्तथा अभिद्रवन्तमुपद्रवन्तम्, आजौ भासुरभावं दीप्तस्वरूपं दुर्मर्षणं दुर्योधनानुजम् ॥ त्र्यर्थश्लोकः ॥ आकृष्टचापं द्रुतमुक्तबाणं कुलोचिताकर्णमसौ जयश्रीः । उत्काकुमारीचरणं विहाय भीतेव गन्तुं परवासमासीत् ॥ १४ ॥ आकृष्टेति ॥ असौ कुलोचिता कुं पृथ्वीं लान्ति गृह्णन्ति ते कुला वीरा वीरोचिता जयश्रीः आकर्ण यथा स्यात्तथा आकृष्टचापम्, उत्काकु उदिता काकुरभिप्रायसूचनं यत्र कर्मणि तद्यथा स्यात्तथा द्रुतमुक्तबाणं मारीचरणं रावणमातुलसमरं विहाय भीता इव परवासं गन्तुम् आसीत् ॥ भारतीये – कुलोचिता कुलीनोचिता कुमारीचरणं कुमार्याः कन्यायाः सकाशाच्चरणं प्रवर्तनं जन्म यस्येति कानीनं कर्णे विहाय कानीनत्वेनाकुलीनत्वात् परवासं गन्तुमुत्का आसीत्, कुमारीचरणं कन्यात्रतं विहाय परवासं पतिवासम् ॥ कुर्वन्स्वरंहस्त उदारवृत्ति स कं प्रहस्तः सहसारणेन । दीप्रांशुकस्तत्र जयद्रथोऽयं रिपुं प्रकुप्यन्नवशं चकार || १५ || (चतुरर्थः) कुर्वन्निति ॥ प्रहस्तः प्रकृष्टौ हस्तौ यस्येत्याजानुप्रलम्बकरः, दीप्रांशुक उज्ज्वलवस्त्रः, जयद्रथो जयन् रथो यस्य सोऽयं हस्तो राक्षसः, तत्र, उदारवृत्ति स्वरं कुर्वन्, सहसा आकस्मिकेन रणेन प्रकुप्यन् कं वशं न चकार । ( १ ) । प्रहस्तो राक्षसराजः स्वरंहस्त आत्मवेगतः सारणेन गमनेन सह तत्र उदारवृत्तिं कुर्वन् । ( २ ) । शुकः शुकाख्यो राक्षसः सारणेन रक्षसा सह स्वरंहस्त निजवेगवतः प्रहस्तः प्रहसनात् । क्किबन्तात्तसिः । दीप्रां तेजस्विनमुदारवृत्तिम् । (३) । भारतीये - रणे सहसा ः सह युगपत् स्यति, यः कंप्रहस्तः कं प्रहमन्ति तेषु । सप्तम्यामपि सार्वविभक्तिकस्तसिः । वक्रोक्त्या हास्यं कुर्वाणेषु, स्वरंहस्तो निजवेगतः, वृत्तिं कुर्वन् उदियाय । स दीप्रांशुकः दीप्रांशोः सूर्यस्येव कं तेजो यस्य सः 'ब्रह्मात्मवाततेजःसु कायस्वर्गशिरो जले । सुखेऽर्थेषु दशस्वेव कशब्दोऽत्र प्रकीर्तितः ॥ '

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230