Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 167
________________ १६ सर्गः ] द्विसंधानम् । तर्द्दशभीताधररागसङ्गादिवारुणाक्षस्तदुपाश्रयेण । पिङ्गयोभ्रुवोरुद्गतधूमराजिर्न भ्राडिवेन्द्रायुधमध्यकेतुः ॥ २ ॥ हस्तं कृपाणे हृदयं स्थिरत्वे दृष्टिं सपत्ने च समादधानः । सदात्मतन्त्रोऽप्युदितस्य मन्योरालुच्यमानाङ्ग इव स्यदेन ॥ ३ ॥ अलङ्कितव्योमगधार्यभूमिं प्रियामिवाशंसुरयं स राजा । चित्तेनलङ्कामवशात्प्रकोपव्याजं वहन्राजगृहान्निरैयः ॥ ४ ॥ ( कुलकम् ) तत इत्यादि ॥ ततो राघवपाण्डवबलप्राप्त्यनन्तरं सोऽयं राजा रावणो नवमस्य नवा मा लक्ष्मीर्यस्य । पूरणार्थान्तत्वेन विरोधः । अष्टमस्याष्टानां पूरणस्य विष्णोर्लक्ष्मणस्य समीपे संभ्रमद् विचरत् नवं वा बलं श्रुत्वा कुधा कोपेनौष्ठं दशन् मनःस्थमरिं गाढमत्यर्थ संनिगृह्य निपीड्य जिघत्सन्नत्तुमिच्छन्निव तद्देशभीताधररागसङ्गाद् तस्य दंशाद्दंशनाद् भीतस्याधरे रागस्य सङ्गादिवारुणाक्षो अरुणे अक्षिणी यस्य तादृक्, तदुपाश्रयेण तयोरक्ष्णोरुपाश्रयेण पिङ्गयोः पिङ्गलवर्णयोर्भुवोर्मध्ये, इन्द्रायुधमध्यकेतुरिन्द्रायुधस्य मध्ये केतुर्यस्य तादृक्, नभ्राण मेघ इवोद्गतधूमराजिः समुत्पन्ना धूमश्रेणिर्यस्य तादृक्, कृपाणे हस्तं स्थिरत्वे स्थैर्ये हृदयं सपने शत्रौ दृष्टिं समादधानः, सदा आत्मतन्त्रः खतन्त्रोऽपि सन्नुदितस्य मन्योः क्रोधस्य स्यदेन जवेन आलुच्यमानाङ्ग इव, अलङ्घितव्योमगधार्य भूमिम् अलङ्घितेरजेयैर्व्योमगैः खेचरे राक्षसैर्धार्या रक्षणीया भूमिर्यस्यास्तां लङ्कां चित्तेन प्रिया - मिवाशंसुः प्रशसन्, अवशात्पारतन्त्र्यान् प्रकोपव्याजं वहन् सन् राजगृहाद् राजमन्दिरात् निरैयः निर्गतवान् ॥ भारतीये – सोऽयं राजा जरासंध, अस्य नवमस्य नवसंख्यापूरणस्य विष्णोर्नारायणस्य संभ्रमदष्टं संभ्रमग्रस्तं बलम् | अलङ्घितव्योऽजय्यः । मगधार्य - भूमिं बन्दिखामिस्थितिं प्रियां प्रीतिविषयाम् आशंसुरिव कामवशात् प्रकोपव्याजम् अनलं वह्नि चित्ते वहन् । सर्गेऽस्मिन्वृत्तमुपजातिः ॥ समागधैर्योऽनुगतः सहायैरक्षोदवैराकुलिताखिलाशः । रणाजिरं विश्वजगद्विनाशं यमः स्वयं कर्तुमिवावतीर्णः ॥ ९ ॥ १६३ समागेति ॥ समागधैर्यो मां लक्ष्मीं गच्छता धैर्येण सहितो रक्षोदवै राक्षसदावानलैः सहायैरनुगत आकुलिताखिलाशो व्यग्रीकृतसमस्तदिग्, रणाजिरं सङ्ग्रामभूमिम् । विश्वजगद्विनाशं कर्तुम् इव । स्वयमात्मना यमः काल इव । अवतीर्णः ॥ भारतीये – यो मागधैर्बन्दिजनैः सहायैमित्रैश्चानुगतः, स जरासंघः अक्षोदवैराकुलिताशो न क्षोदो यस्य तेन वैरेण आकुलिता अखिलानामाशा वाञ्छा येन सः । यद्वा आन्नारायणात् क्षोदो यस्य तेन वीरसमूहेन आकुलिता अखिलाशाः समस्ताभिलाषा यस्य सः ॥ सङ्ग्रामरङ्गं शवनृत्यरम्यं सुराः समागच्छत पश्यतेति । निमन्त्रणायेव निकाय्यमेषामापूर्य तूर्य विरुतं विचक्रे ॥ ६ ॥

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230