Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 135
________________ १२ सर्गः] द्विसंधानम् । कृतेति ॥ पुरुषोत्तमेन लक्ष्मणेन विष्णुना नरप्रधानेन च । प्रथमं कृतपाणिपीडनविधिः कृतः पाणिना पीडनस्य विधिर्यस्याः सा, विहितपरिणयनविधाना च । समुदूढतनुः समुद्धृतमूर्तिर्भयतः परिकम्पिता कोटिकशिला नववधूर्नवोढेव । विरराज ॥ परितः पतद्भुजगपङ्किरसौ गलितान्त्रजालजटिलेव बभौ । १३१ परिभिन्ननिर्झरजला हरिणा विधृतानिलेन घनमूर्तिरि ॥ ४१ ॥ परित इति ॥ परितः सर्वतः पतद्भुजगपतिः क्षरत्सर्पश्रेणिरसौ शिला । गलितान्त्रजालजटिला च्युतान्त्रमालारूपजटावलम्बिनीव । परिभिन्ननिर्झरजला स्रवन्निर्झरपानीया हरिणा लक्ष्मणेन कृष्णेन । अनिलेन वायुना घनमूर्तिरिव । विधृता ॥ दिवि दुन्दुभिः प्रणिननाद दिवः कुसुमाञ्जलिः प्रणिपपात तथा । तमुदीक्ष्य विस्मयमिवोच्चलितास्तरवोऽपि पुष्पमभितश्चकरुः ॥ ४२ ॥ दिवीति ॥ तं लक्ष्मणं विष्णुमुदीक्ष्य विस्मयमाश्चर्यमुच्चलिता इव ॥ द्विषतां भयेन सुहृदां प्रमुदा द्युनिवासिनामतिशयेन हरेः । अपि साहसैरभवदुद्वृषितं ननु वस्त्वनेकविधमेकविधम् ॥ ४३ ॥ द्विषतामिति ॥ एकविधमपि वस्त्वनेकविधं भयप्रमोदाश्चर्य साहसबोध कमभवत् ॥ अवलोक्य तं कलकलं मुमुचुर्दिशि खेचरा जितशिलोद्धरणम् । सहधर्ममानितनया विततं प्रविजेष्यसे रिपुमपीति जगुः ॥ ४४ ॥ अवलोक्येति ॥ सहधर्ममानितनया सहैव धर्मेण विनयलक्षणेन शिष्टपरिपालन दुष्टनिग्रहलक्षणेन वा मानितो नयो येषां ते खेचराः सुग्रीवादयो जितशिलोद्धरणं जितं शिलाया उद्धरणं येन तादृशं तं लक्ष्मणमवलोक्य दिशि दिक्षु कलकलं कोलाहलं मुमुचुः । तथा विततं रिपुं रावणाभिधमपि प्रविजेष्यसे इति जगुः || भारतीये – खेचरा देवाः । तं कृष्णम् । सह युगपत् एककालम् । कलकलं मुमुचुः । धर्ममानितनयाः धर्मस्य पाण्डुनृपस्य मानिनस्तनया युधिष्ठिरप्रभृतयो विततमनवरतं यथा स्यात्तथा जगुः ॥ प्रतिरोप्यतां तदियमत्र शिला भवितासि शत्रु कुलनिर्दलनः । प्रतिशुश्रुवानिति वचः सुहृदां समतिष्ठिपत्पुनरिमां स हरिः ॥ ४९ ॥ प्रतिरोप्येति ॥ स हरिलक्ष्मणः कृष्णश्च तत्तस्मादियं शिला अत्र यथास्थानं प्रतिरोप्यताम् त्वं शत्रुकुलनिर्दलनो रिपुवंशावमर्दी भवितासि' इति सुहृदां वचः प्रतिशुश्रुवान् अङ्गीकृतवान् पुनरिमां समतिष्ठिपत् प्रतिरोपयामास ॥ सरसीजलप्लवहिमस्तमसौ द्विपदानसौरभमथानुभवन् । मृगनाभिगन्धमपि गन्धवहः समयं वनेचर इवाभियौ ॥ ४६ ॥ सरसीति ॥ अथ सरसीजलप्लवेन हिमो द्विपदानसौरभं गजमदामोदम्, मृगनाभिगन्धं

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230