Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 148
________________ १४४ काव्यमाला | इदमिति ॥ नयपरो नीतिपरोऽयं हनुमान् इति पूर्वोक्तप्रकारेणेदमभिधाय नृपमुद्रिकासमुपलक्षितं राममुद्रिकाभिधं प्राभृतमुपायनं प्रदाय, तां जानकीमाश्वासयन् सन् रिपोः कुलघनं जयन्तं पतिं रामं मुदा हर्षेण आयत । तथा उपपौर्णमासं पौर्णमासीसमीपोद्भवं विधोश्चन्द्रस्य महस्तेजः कृतार्थवत्रं कृतार्थताव्यञ्जकवदनं हि निश्चये एति प्राप्नोति ॥ भा - रतीये – नृपमुद्रिकासमुपलक्षितं राजकीयमुद्रामुद्रितं प्राभृतमुपायनं तां काननस्थकामिनीम्, पतिं चक्रपाणिम् ॥ पृथ्वीछन्दः ॥ इति श्रीदाधीच जातिकुद्दालोपनामकश्रीछोटीलालात्मजश्रीबदरीनाथविरचितायां द्विसंधानकाव्यटीकायां हनुमन्नारायणदूताभिगमनकथनो नाम त्रयोदशः सर्गः । चतुर्दशः सर्गः । श्रीपार्थः सपदि हरिस्तथा सरामः सुग्रीवः सदसि समंप्रभाविराटः । निश्चित्य प्रकृतिषु शक्तिमभ्यमित्रं व्युत्तस्थुः प्रलयदवानला इवामी ॥ १ ॥ श्रीपेति ॥ श्रीपार्थः श्रियं पाति तादृग् अर्थो यस्य लक्ष्मीरक्षाप्रयोजनः, हरिलक्ष्मणः, तथा स राम: प्रभाविराटः प्रभावी राटो ध्वनिर्यस्य स सुग्रीवो वानरराजः, अमी सपदि शीघ्रं सदसि सभायां समं युगपत् प्रकृतिषु स्वाम्यमात्यादिषु शक्ति निश्चित्य अभ्यमित्रं अमित्रं शत्रुं लक्षीकृत्य प्रलयदवानला इव व्युत्तस्थुः ॥ भारतीये – श्रीपार्थो लक्ष्म्युपलक्षितोऽर्जुनः, हरिः कृष्णः, सरामो बलभद्रयुतः, सुग्रीवः शोभनग्रीवः, समप्रभाः समं कदाप्यमानं प्रकृष्टं भाति सः । सममित्यव्ययम् । विराटः ॥ सर्गेऽस्मिन्प्रहषणी वृत्तम् ॥ स्कन्धस्था मदकरिणः प्रयाणभेरी दध्वान प्रतिसमयं निहन्यमाना । अत्युच्चैः पदमधिरोप्य मान्यमारान्न्यक्कारं क इह परैः कृतं सहेत ॥ २ ॥ स्कन्धस्थेति ॥ मदकरिणो मत्तमातङ्गस्य स्कन्धस्था प्रयाणभेरी निहन्यमाना सती प्रतिसमयं प्रतिक्षणं दध्वान ध्वनितवती । कः पुरुषोऽत्युच्चैरुच्चतरं पदं मान्यं जनमधिरोप्य नीत्वा आरात् पश्चादिह लोके परैः शत्रुभिः कृतं न्यक्कारं सहेत । अपि तु न कोऽपि ॥ आरावं दिशिदिशि तं निशम्य तस्या रोमाञ्चैः परिहृषितैस्तनुर्नृपाणाम् । अम्भोदप्रथमरवोत्थरत्नसूचिः संरेजे स्वयमिव सा विदूरभूमिः || ३ || आरावमिति ॥ नृपाणां सा तनुस्तमारावं दिशिदिशि निशम्य श्रुत्वा परिहृषितैरत्यानन्दसमुत्थितै रोमाञ्चैः, स्वयमात्मना, अम्भोदप्रथमरवोत्थरत्नसूचिरम्भोदस्य प्रथमरवा - दुत्था रत्नसूचिर्यस्यास्तादृग्विदूरभूमिरिव । संरेजे शुशुभे ॥ रागादेः सह वसतोऽपि तापवृत्तेर्यः स्वस्मिन्नवधिरहो न कस्यचित्सः । भूपानां रिपुमभिपश्यतामिवोग्रं यत्कोपे स्फुरति रसान्तरं न जज्ञे ॥ ४ ॥

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230