Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press
View full book text
________________
१५४
काव्यमाला ।
णापूर्वमदृष्टपूर्व प्रति अग्रगमेन पुरोयानेन, तृप्तमात्मानं तर्पयितुमैच्छत् । यदि परिचितसाम्यतः परिचितमतिलक्षितं साम्यं यस्य ततः, अन्यतोऽन्यस्मादपि जनः प्रतिविरतो नास्ति । तदा कस्य निर्वृतिः सुखं स्यात् । न कस्यापि ॥
कुसुममिषुचयो, गुणोऽलिमाला, मृदुविटपायतयष्टयो धनूंषि । विविधमिदमनङ्गशस्त्रजातं सफलमभूच्चिरलक्ष्यदर्शनेन ॥ ५ ॥
कुसुममिति ॥ इदं पूर्वार्धोक्तं विविधमनङ्गशस्त्रजातं चिरलक्ष्यदर्शनेन बहुकालं वेध्यदर्शनेन सफलमद्याभूत् ॥
कलमलिकुलकोकिलाप्रलापं स्मरधनुरानकनादमाकलय्य । दयितपरिगमेऽपि कातराणां धगितिकृतं हृदयेन कामुकीनाम् ॥ ६ ॥
कलेति ॥ कातराणां भीरूणा कामिनीनां कंदर्पदर्पकटाक्षितकामिनां हृदयेन दयितपरिगमे प्रियपरिरम्भेऽपि सति कलं मनोहरमलिकुलकोकिलाप्रलापमलिकुलस्य भ्रमरगणस्य कोकिलस्य आसमन्तात् प्रलापं स्मरधनुरानकनादं स्मरस्य धनुरानकयो दमाकलय्य शङ्कित्वा धग् दग्धम् इति कृतम् ॥
प्रणयकलहकैतवं प्रणामं शपथमसत्यमुपागमं विलज्जम् । प्रतिमिथुनमिदं निरूप्य रेजे स्फुटदिव तत्सकलं हसेन पुष्पम् ॥ ७ ॥ प्रणयेति ॥ तत् सकलं पुष्पं कर्त प्रणयकलहकैतवं प्रणयकलहेन कैतवं दम्भो यत्र तं प्रणामं प्रणिपातम्, असत्यं शपथं प्रतिज्ञां, विलज्जं विगतलजमुपागममालिङ्गनम् , इदं कर्म, प्रतिमिथुनं मिथुनं मिथुनं प्रति, निरूप्यावलोक्य, हसेन हास्येन, स्फुटन विकसदिव रेजे॥
अवचितकुसुमावशिष्टवृन्तं वनमबलाकृतिविस्मयेन हस्तम् । विकसितमकृतेव तन्महान्तो ननु रुजतामपि सुग्रहा गुणेन ॥ ८ ॥ अवेति ॥ अवचितकुसुमावशिष्टवृन्तमवचितकुसुमैस्त्रोटितपुष्पैरवशिष्टमुज्झितं वृन्तं प्रसवबन्धनं यत्र तद्वनमबलाकृतिविस्मयेन कामिनीकायाद्भुतेन विकसितं हस्तमकृतेव । ननु महान्तो गुणेन रुजतामपि पीडाकर्तृणामपि सुग्रहा भवन्ति ।
कथमपि नमयन्त्युपेत्य शाखां करयुगलेन लतान्तमुच्चिचीषुः । स्तनकलशभरेण भग्नमध्या तरुमवलम्ब्य निषेदुषीव काचित् ॥ ९॥
कथमिति ॥ काचिल्लतान्तमुच्चिचीषुः शाखामुपेत्य कथमपि करयुगलेन नमयन्ती सती स्तनकलशभरेण भग्नमध्या इव तरुमवलम्ब्य निषेदुषी भाति ॥
निकटसुलभमुद्गमं विहाय श्लथबलिनीवि विदूरगं ललचे । प्रथयितुमुदरं परा स्त्रिया हि प्रियतमविभ्रमगन्धनोऽन्यसङ्गः ॥ १० ॥ निकटेति ॥ परा कामिनी निकटसुलभमुद्गमं पुष्पं विहाय विदूरगं पुष्पमुदरं प्रथयितुं

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230