SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १५४ काव्यमाला । णापूर्वमदृष्टपूर्व प्रति अग्रगमेन पुरोयानेन, तृप्तमात्मानं तर्पयितुमैच्छत् । यदि परिचितसाम्यतः परिचितमतिलक्षितं साम्यं यस्य ततः, अन्यतोऽन्यस्मादपि जनः प्रतिविरतो नास्ति । तदा कस्य निर्वृतिः सुखं स्यात् । न कस्यापि ॥ कुसुममिषुचयो, गुणोऽलिमाला, मृदुविटपायतयष्टयो धनूंषि । विविधमिदमनङ्गशस्त्रजातं सफलमभूच्चिरलक्ष्यदर्शनेन ॥ ५ ॥ कुसुममिति ॥ इदं पूर्वार्धोक्तं विविधमनङ्गशस्त्रजातं चिरलक्ष्यदर्शनेन बहुकालं वेध्यदर्शनेन सफलमद्याभूत् ॥ कलमलिकुलकोकिलाप्रलापं स्मरधनुरानकनादमाकलय्य । दयितपरिगमेऽपि कातराणां धगितिकृतं हृदयेन कामुकीनाम् ॥ ६ ॥ कलेति ॥ कातराणां भीरूणा कामिनीनां कंदर्पदर्पकटाक्षितकामिनां हृदयेन दयितपरिगमे प्रियपरिरम्भेऽपि सति कलं मनोहरमलिकुलकोकिलाप्रलापमलिकुलस्य भ्रमरगणस्य कोकिलस्य आसमन्तात् प्रलापं स्मरधनुरानकनादं स्मरस्य धनुरानकयो दमाकलय्य शङ्कित्वा धग् दग्धम् इति कृतम् ॥ प्रणयकलहकैतवं प्रणामं शपथमसत्यमुपागमं विलज्जम् । प्रतिमिथुनमिदं निरूप्य रेजे स्फुटदिव तत्सकलं हसेन पुष्पम् ॥ ७ ॥ प्रणयेति ॥ तत् सकलं पुष्पं कर्त प्रणयकलहकैतवं प्रणयकलहेन कैतवं दम्भो यत्र तं प्रणामं प्रणिपातम्, असत्यं शपथं प्रतिज्ञां, विलज्जं विगतलजमुपागममालिङ्गनम् , इदं कर्म, प्रतिमिथुनं मिथुनं मिथुनं प्रति, निरूप्यावलोक्य, हसेन हास्येन, स्फुटन विकसदिव रेजे॥ अवचितकुसुमावशिष्टवृन्तं वनमबलाकृतिविस्मयेन हस्तम् । विकसितमकृतेव तन्महान्तो ननु रुजतामपि सुग्रहा गुणेन ॥ ८ ॥ अवेति ॥ अवचितकुसुमावशिष्टवृन्तमवचितकुसुमैस्त्रोटितपुष्पैरवशिष्टमुज्झितं वृन्तं प्रसवबन्धनं यत्र तद्वनमबलाकृतिविस्मयेन कामिनीकायाद्भुतेन विकसितं हस्तमकृतेव । ननु महान्तो गुणेन रुजतामपि पीडाकर्तृणामपि सुग्रहा भवन्ति । कथमपि नमयन्त्युपेत्य शाखां करयुगलेन लतान्तमुच्चिचीषुः । स्तनकलशभरेण भग्नमध्या तरुमवलम्ब्य निषेदुषीव काचित् ॥ ९॥ कथमिति ॥ काचिल्लतान्तमुच्चिचीषुः शाखामुपेत्य कथमपि करयुगलेन नमयन्ती सती स्तनकलशभरेण भग्नमध्या इव तरुमवलम्ब्य निषेदुषी भाति ॥ निकटसुलभमुद्गमं विहाय श्लथबलिनीवि विदूरगं ललचे । प्रथयितुमुदरं परा स्त्रिया हि प्रियतमविभ्रमगन्धनोऽन्यसङ्गः ॥ १० ॥ निकटेति ॥ परा कामिनी निकटसुलभमुद्गमं पुष्पं विहाय विदूरगं पुष्पमुदरं प्रथयितुं
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy