________________
१५ सर्गः] द्विसंधानम् । .
१५५ प्रकटयितुं श्लथबलिनीवि शिथिलबलिपरिधानवस्त्रग्रन्थि यथा स्यात्तथा विदूरगं यथा तथा ललचे अतिक्रान्तवती । हि यतः-स्त्रिया अन्यसङ्गः प्रियतमविभ्रमगन्धनो वल्लभकटाक्ष. सूचको भवति ॥
सुरभि वितरितुं प्रसूनमेका सकृदधिपेन विपक्षनाम नीता। कितव तव फलं तदस्तु लब्धं प्रियजनयेऽर्पय पुष्पमित्यकुप्यत् ॥११॥
सुरभीति ॥ अधिपेन स्वामिना सुरभिप्रसूनं पुष्पं वितरितुं सकृदेकवारं विपक्षनाम सपत्नीसंज्ञां नीता प्रापिता एका कामिनी 'हे कितव, तत् प्रसूनमस्तु तिष्ठतु, त्वं प्रियजनये प्रियभार्यायै पुष्पमर्पय देहि, मया तव फलं लब्धम्' इति अकुप्यत् ॥
कुचयुगमतुलं कुतोऽस्य भारः किल भवतीति तुलाधिरोपणाय । सह तुलयितुमात्मनोद्यतेव क्षणमपरा व्यलगीत्प्ररोहदोलाम् ॥ १२ ॥ कुचेति ॥ अपरा कामिनी, अस्य कुचयुगस्य कुतः कस्माद् भारो भवति इति हेतोरात्मना सहातुलमनुपमं कुचयुग्मं तुलयितुं तुलाधिरोपणायोद्यतेव क्षणं प्ररोहदोलां व्यलगीदारुरोह ॥
अवचनमधिशय्य मन्युनान्या पृथगधिपाद्विरचय्य पुष्पशय्याम् । स्मरशरशयनस्थितेव दूना ननु विरहः प्रियगोचरोऽपि दीनः ॥ १३ ॥
अवचनमिति ॥ अन्या कान्ता, मन्युना क्रोधेनाधिपात् स्वामितः पृथक् पुष्पशय्यां विरचय्यावचनं संभोगगोचरचर्चारहितं यथा स्यात्तथाधिशय्य शयित्वा स्मरशरशयनस्थिता कंदर्पमार्गणशय्यास्थितेव दूनाभवत् । ननु अहो विरहः प्रियगोचरोऽपि सन्दीनो भवति ॥
व्रततिषु गहनासु कापि लीनं मृगयितुमीश्वरमाकुलं भ्रमन्ती । करधृतलतिकाबलोपलब्धुं तमुदधतेव मनोभवस्य शाखाम् ॥ १४ ॥
व्रतेति ॥ काप्यबला, गहनासु व्रततिषु, लीनमीश्वरं पतिं मृगयितुमवलोकयितुमाकुलं यथा स्यात्तथा भ्रमन्ती सती, तमुपलब्धं करधृतलतिका हस्तधृतवल्ली सती, मनोभवस्य मारस्य शाखामुदधृतेवोद्धृतिं नीतेव ॥
श्रवसि शिरसि कृत्स्नमुच्चयेऽपि स्मितहसितानुकृतीर्ण्यया क्षिपन्ती । मुकुलमुदितमुद्गमं च सर्वस्वमपि वनस्य परोद्यतेव हर्तुम् ॥ १५ ॥
श्रवेति ॥ परा कामिनी, उच्चयेऽपि चोटनेऽपि स्मितहसितानुकृति स्मितहसितयोरनुकृ. तिर्यत्रेति स्मितानुकारि कृत्स्नं मुकुलं कलिकां श्रवसि श्रोत्रे, हसितानुकारि कृत्स्नम् उदितं निर्गतमुद्गमं शिरसि ईय॑या क्षिपन्ती सती वनस्य सर्वस्वमपि हर्तुमुद्यतेव भाति ॥
इति चपलविलासिनीविहारैर्विलुलितमुद्गतकर्णिकारकोशम् । प्रशमयितुमुपप्लवं वधूभ्यो मुकुलितहस्तमिवाबभावरण्यम् ॥ १६ ॥