________________
काव्यमाला ।
इतीति ॥ इत्येवंप्रकारेण चपलविलासिनीविहारैविलुलितमुपद्रुतमुद्गतकर्णिकारकोशं निर्गतकर्णिकारकर्णिकमरण्यमुपप्लवमुपद्रवं प्रशमयितुं वधूभ्यो मुकुलितहस्तमिवाबभौ ॥
स्थलकमलपरागपिञ्जराभः परिचितवांश्च नदीनवार्जवं यः। श्रममभिभवति स कामिनीनां विधुतमयूरशिखः स मातरिश्वा ॥१७॥ स्थलेति ॥ यो नदीनवार्जवं नदीनामिनस्य समुद्रस्य वारि जले जवं वेगं परिचितवान् स स्थलकमलपरागपिञ्जराभः स्थलकंजकिंजल्ककळूरकान्तिर्मातरिश्वा वायुर्विधुतमयूरशिखः प्रकम्पितकलापिशिखः सन् कामिनीनां श्रममभिभवति स्म ॥ भारतीये-नद्या गङ्गाया नवमार्जवं प्राञ्जलत्वम् ॥
क्षुपविपिनलतान्तरे जनानामिति सुरतव्यवहारवृत्तिरासीत् । ननु दयितपरस्परानिकारव्यवहरणं भुवि जीवितव्यमाहुः ॥ १८ ॥ क्षुपेति ॥ जनानां क्षुपविपिनलतान्तरे क्षुपाणां ह्रस्वशाखशाखिनां विपिनलतानां वनकन्दलिनीनामन्तरे इति वक्ष्यमाणप्रकारेण सुरतव्यवहारवृत्तिरासीत् । ननु अहो भुवि दयितपरस्परानिकारव्यवहरणं दयितयोः परस्परमनिकारेणाप्रतारणेन व्यवहरणं जीवितव्यमाहुविद्वांसः ॥
परिषजति परस्परं समेत्य प्रतिमिथुने कुचमण्डलं बबाधे । भजति हि निजकर्कशं न पीडा कमपरमध्यगतापवारकं वा ॥ १९ ॥ परीति ॥ प्रतिमिथुने समेत्य परस्परं परिषजत्यालिङ्गति सति, कुचमण्डलं बबाधे पीडामाप। हि यतः पीडा अपरमध्यगतापवारकमपरयोः शश्वोर्मध्यगतमपवारकं शत्रु निजकर्कशमात्मना कठिनं कं जनं न भजते । अपि तु सर्वमेव ॥
उदधमदिव तत्पराभिमर्शादधरयुगं व्यतिचुम्बितं स्वमङ्गम् । अधरितगतयो गृहीतमुक्ताः समुपचिता हि सह व्रणैः स्फुरन्ति ॥२०॥ उदधेति ॥ तत्पराभिमर्शात् प्रतिमिथुनपराभिमर्शाद व्यतिचुम्बितमन्योन्यवक्रसंयोगीकृतमधरयुगं कर्त स्वमात्मीयमङ्गमुदधमदिव । हि युक्तम्, अधरितगतयो हीनीभूतगतयो गृहीतमुक्ताः पूर्व गृहीताः पश्चान्मुक्ता व्रणैः समुपचिताः संभृताः सह युगपत् स्फुरन्ति । अधरौ तु स्वयमेवाधरौ, अतो नायुक्तस्तत्र व्रणप्रादुर्भाव इत्याकूतम् ॥
परभृतशुकसारिकाविरावाः सममबलासुरतारवं तिरोऽधुः ।
अपि चरितमवाच्यमन्यदीयं रहयति पक्षिगणो न किंमनुष्यः ॥२१॥ __ परेति ॥ परभृतशुकसारिकाविरावाः कोकिलकीरसारिकाणां विरावा अबलासुरतारवं मुग्धानिधुवनध्वनि तिरोऽधुस्तिरोहितवन्तः । अपि आश्चर्ये । पक्षिगणोऽप्यन्यदीयमवाच्यं चरितं रहयति तर्हि मनुष्यः किं न रहयति । पक्षिशब्दे कुलवाचकात्पक्षशब्दात्प्रशंसायामिनिः, तेन प्रशस्तान्वयः पुरुषो रहयति, न कापुरुषः इत्याकूतम् ॥