________________
१५७
१५ सर्गः]
द्विसंधानम् । प्रशमय रुषितं प्रिये प्रसीद प्रणयजमप्यहमुत्सहे न कोपम् । तव विमुखतयाधिरूढचापे मनसिशये कुपिते कुतः प्रसादः ॥ २२ ॥ मम यदि युवतिं विशङ्कसेऽन्यां श्वसिमि तव श्वसितैम॒षान्ययोगः । भवतु मनसि संशयस्त्वमैक्यात्प्रविभजसे त्वयि जीवितं कथं मे ॥२३॥ न पुनरिदमहं करोमि जीवन्निति शपथेऽधिकृते पुरा कृतं स्यात् । त्यज कुपितमितीरिते नु सत्यं कुपितवती भवसीव तन्नजाने ॥ २४ ॥ बहुतिथमवलोक्य नाथमानं कलयसि सत्यमिमं कृतापराधम् । अनुदितवचनं नवप्रियं मां गणयसि गर्वितमन्यवारितं वा ॥ २५ ॥ शिथिलय हृदयं न मेऽनुरागं विसृज विषादमिमं न तन्वि वाक्यम् । इति दयितमुपागमैकदैन्यं स्वयमबलाभिगतं कथंचिदैच्छत् ॥ २६ ॥ प्रशमयेत्यादि । अबला कामिनी 'हे प्रिये, त्वं प्रसीद, रुषितं प्रशमय, अहं प्रणयजमपि कोपं नोत्सहे, तव विमुखतया कुपितेऽधिरूढचापे प्रत्यश्चितकोदण्डे मनसिशये कंद सति प्रसादः कुतः, यदि ममान्यां युवतिं विशङ्कसे (अयम्) अन्ययोगोऽन्यस्यायोगो मृषा मिथ्या, (यतोऽह) तव श्वसितैः प्राणैः श्वसिमि प्राणिमि, तव मनसि संशयः कथं भवतु त्वं त्वयि स्थितं मे जीवितमैक्यात् कथं प्रविभजसे पृथक्करोषि, अहं जीवन् पुनरिदं न करिष्यामि' इति पुरा शपथेऽधिकृते सति (यदि) कृतं स्यात् (तपि) कुपितं त्यज' इतीरिते कथितेऽपि नु अहो सत्यं भवती कुपितवती भवसीव तदहं न जाने, बहुतिथं बहुप्रकारं नाधमानं याचमानमिमं जनं सत्यं कृतापराधं कलयसि, अनुदितवचनमनुक्तवाक्यं मां नवप्रियं गर्वितमभिमानिनम्, अथवा अन्यवारितम् अन्यथा निषिद्धं गणयसि (एतेनोक्तावनुक्तौ वा दोषः) हे तन्वि, हृदयमाकोपवच्चेतः शिथिलय मा दृढं विधाः, मे मम अनुरागं प्रीतिं न शिथिलय दृढां विधेहि, इमं विषादं विसृज, वाक्यं न विसृज, इत्येवंप्रकारेण उपागमैकदैन्यमुपागमायालिङ्गनायैकं दैन्यं यस्य तम् । 'दौत्यम्' इति पाठेऽप्यर्थः स्फुटः । खयमात्मनैव अभिगतं प्राप्तं दयितं प्रियं कथंचिन्महाकष्टेन ऐच्छत् स्वीकृतवती॥
तरलयसि दृशं किमन्यचेता, दृतिरिव लोहकृतां किमुष्णमुष्णम् । श्वसिषि, किमिदमुत्रसस्यपैतुं, किमिव भयं, वद का मनःप्रिया ते २७ अलस इव, गतं कुतोऽपि चित्तं मृगयितुमिच्छरिवोद्भमन्निव त्वम् । किमसि किमपराकृति प्रपन्नस्तव चपलस्य मनोगतं न वेद्मि ॥ २८ ॥ किमतिविपिनमन्तरे नदी वा तव गिरिदुर्गमुतास्ति योषितो वा । यदनवरतचिन्तयासि खिन्नो ननु च तथासति किंनु वल्लभत्वम् ॥२९॥