________________
१९८
काव्यमाला |
मधुरमभिहितो न भाषते मां न खलु भवानभिचुम्बितः प्रणिस्ते । नच परिरभसे कृतोपगूढः पटलिखितः स्विदपेक्षते न दृष्टः ॥ ३० ॥ इति किमपि विकोपितास्तरुण्यः किल तरुणान्विनियम्य काञ्चिदाम्ना । कलवलयरवं विशीर्णसूत्रं कुसुमगुणैरवताडयांवभूवुः ॥ ३१ ॥
तरलयेत्यादि ॥ तरुण्यः । त्वं किमन्यचेता दृष्टिं तरलयसि, लोहकृतां दृतिर्भस्त्रेव उष्णमुष्णं किं श्वसिषि, इदं किमपैतुमपसर्तुमुत्रस्यसि उद्विजसे, किं भयमिव वर्तते, ते तव मनःप्रिया केति वद, भवान् अलस इव कुतो भवसि कुतोऽपि कारणात् गतं नष्टं चित्तं मृगयितुमवलोकयितुमिच्छुरिव किमसि, उद्धमन् मुह्यन्निव किमसि, किमपराकृतिमन्याकारं प्रपन्नोऽसि, चपलस्य तव मनोगतं न वेद्मि तव योषितश्च अन्तरे मध्ये किमतिविपिनमरण्यानी वाथवा नदी, उत गिरिदुर्गमस्ति किम् । यद्यस्मात्कारणादनवरतचिन्तया सतत स्मरणेन खिन्नोऽसि, ननु अहो तथासति वल्लभत्वं प्रियत्वं किंनु । मधुरं प्रियमभिहित उक्तो भवान् मां न भाषते खलु निश्चये अभिचुम्बितोऽपि भवान् न प्रणिस्ते चुम्बति, कृतोपगूढः कृता लिङ्गनोऽपि न परिरभसे नालिङ्गसि, स्विदथवा पटलिखित इव दृष्टो भवान् न अपेक्षते नाङ्गीकरोति, इत्येवंप्रकारेण किमपि विकोपिताः सत्यः तरुणान् प्रियान् काञ्चिदाम्ना एकयष्टयात्मक कटिसूत्रेण विनियम्य बन्धयित्वा कुसुमगुणैः पुष्पसूत्ररज्जुभिः, कलवलयरवं मन्द्रकंकणध्वनि यथा स्यात्तथा विशीर्णसूत्रं यथा स्यात्तथा अवताडयांबभूवुः समन्ततस्ताडितवत्यः ॥
,
कुपितमवचनं शिरःप्रणामः शपथमयः प्रणयः कृतोपचारः ।
इदमद इति गोचरो न वाचां प्रतिदयितं बहु कैतवं बभूव ॥ ३२ ॥
कुपितेति ॥ प्रतिदयितं दयितं दयितं प्रति, कुपितं कोप:, अवचनं वचनराहित्यम्, शिरःप्रणामः शिरसा प्रणिपातः शपथमयो मातापित्रादिमरणनिर्देशघटितप्रतिज्ञाप्रचुरः, प्रणयः स्नेहः कृतोपचारः कृत उपचारो यत्र तादृक्, इत्येवमादिप्रकारेण बहु बहुविधं कैतवं कर्तृ इदम्, अद इत्येवंप्रकारेण वाचां वचनानां गोचरो विषयो न बभूव ॥
इति वनमभितो विहृत्य खेदादगुरुचितायति साधुनीपयोगात् । समकररुचिरक्षतां हरीणां प्रियजनता रतये समुद्रवेलाम् ॥ ३३ ॥
इतीति ॥ हरीणां सुग्रीवादीनां प्रियजनता: प्रिया जनसमूहाः साधुनीपयोगात् साधूनां फलपुष्पपल्लवैर्मनोहराणां नीपानां कदम्बवृक्षाणां योगात्संबन्धाद् उचितायति उचिता योग्या आयतिदैर्ध्य यस्य तादृग्, वनम्, अभितः सामस्त्येन विहृत्य खेदाच्छ्रमात् श्रमं संत्यज्य रतये क्रीडायै समकररुचिरक्षतां मकराणां रुचिराणाम् ' रुचिरं कुसुमं ज्ञेयं रुचिरं रुधिरं तथा । रुचिरः शफरः प्रोक्तो रुचिरं पेशलं मतम् ॥' इति जयाभिधानोक्तेः शफराणां क्षतेन सहितां समुद्रवेलां सागरवेलाम्, अगुः ॥ भारतीये – अगुरुचितायति अगुरु