________________
१९ सर्गः]
द्विसंधानम् ।
१५९
भिर्वृक्षविशेषैश्चिता आयतिर्दैर्ध्य यत्र तादृग् वनम् । इलां पृथ्वीं समकररुचि समो हानि - वृद्धिरहितः करः सिद्धायो यस्यां तादृग् रुचिर्यस्मिंस्तादृग् यथा स्यात्तथा रक्षतां हरीणां यादवानां समुद्रवा समुत् सा प्रियजनता सहर्षो रवो यस्यां सा हर्षरवेण सहिता वा रतये धुनीपयो गङ्गाम्भोऽगात् ॥
पयसि भयमवेत्य योषितां दयितजनोऽभवदग्रतः सरः ।
कुतपनियतविक्रमाः स्त्रियः क्व न विधुरे पुरुषः पुरःसरः ॥ ३४ ॥
पयसीति ॥ दयितजनो योषितां पयसि भयमवेत्य ज्ञात्वा अग्रतः सरोऽग्रेसरः अभवत् । स्त्रियः कुतपनियतविक्रमा उदुम्बरकनियमितचरणा भवन्ति । पुरुषो विधुरे वैकल्ये सति क पुरःसरो न भवति ॥
प्रणिपतदिव वारि पादयोस्त्रसदवलग्नमिवापि जङ्घयोः ।
शिथिलयदिव लोलमंशुकं प्रिय इव चाटुमुपानयद्वधूः ॥ ३५ ॥
प्रणिपतेति ॥ वारि जलं पादयोश्चरणयोः प्रणिपतदिव, जङ्घयोरवलग्नमपि सद्विभ्यदिव, लोलमंशुकं शिथिलयदिव प्रिय इव वधूः कामिनीः चाटुं चाटुकारमुपानयत्
प्रापयत् ॥
तुलितरसनमौपनीविकं बलिभमिवाम्बु बभूव नाभिगम् । त्रिवलिषु पुनरुक्तवीचिकं बहुभवमेत्यबलावसङ्गतः ॥ ३६ ॥
तुलितेति ॥ अम्बु जलमौपनीविकं नीविसमीपगं सत् तुलितरसनं तुलिता रसना 'एकयष्टिर्भवेत्काञ्ची, मेखला मुखसंयुता । रसना सर्वरत्नाङ्गा करोति कटिसूत्रकम् ॥' इत्युक्तलक्षणं कटिसूत्रं येन तादृग्, नाभिगं सत् वलिभं वलिभूषणमिव, पुनरुक्तवीचिकं द्विगुणिततरङ्गकं सत् त्रिवलिषु वलित्रये बभूव । हि यतः अबलावसङ्गतः कामिनीसंयोग तो वहुभवमनेकधा संसृतिमेति प्राप्नोति ॥
अभिमुखमवलम्बितोऽम्बुना निचितकुचद्वयसं प्रियाजनः ।
स्तनजवनभरेण पीडितः स्फटिकमयीमिव भित्तिमाश्रितः ॥ ३७ ॥
अभीति ॥ अम्बुना जलेन स्तनजघनभरेण पीडितः, स्फटिकमयीं स्फटिकनिर्मितां भित्तिमाश्रितइव प्रियाजनोऽभिमुखं संमुखं यथा स्यात्तथा निचितकुचद्वयसं संभृतस्तनप्रमाणं यथा स्यात्तथावलम्बितः ॥
परिचितमभिगम्य लीलया कुचभुजयोविंशतान्तरं मिथः । परिषजदिव योषितो जलं चलवलिबाहुयुगेन निर्बभौ ॥ ३८ ॥
परीति । जलं लीलयानायासेनाभिगम्य परिचितं संस्तुतं कुचभुजयोरन्तरं विशता चलवलिबाहुयुगेन तरलतरङ्गभुजद्वयेन योषितः कामिनीः परिषजदालिङ्गदिव निर्बभौ ॥